पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५७

पुटमेतत् सुपुष्टितम्
446
अलंकारमणिहारे

नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्गळम् ।
येषां हृदिस्थो भगवान् मङ्गळायतनं हरिः ॥

इति स्मरणात् । हे अच्युत! अनेन वक्ष्यमाणचोक्षत्वसंपादनानुगुणं पावनत्वं व्यञ्जितम् । यथाचोच्यते--

अतिपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् ।
भूयस्तपस्वी भवति पङ्क्तिपावनपावनः ॥

इति । उषसि प्रत्यूषे वृषगोत्रशेखरं शेषाद्रिशेखरं त्वां स्मरतां आत्मवतां ज्ञानिनां यत् भद्रत्वं मङ्गळायतनत्वेनोक्तस्य हरेस्तवस्मरणेन यत्कल्याणत्वमिति भावः, प्राप्यं भवति तत् अनुरूपम् । यत् चोक्षत्वं शुद्धत्वं च प्राप्यं पावनतमत्वेनोक्तस्याच्युतस्य तव स्मरणेन यत्पवित्रत्वं लभ्यमिति भावः, तदिदमप्यनुरूपम् । ‘चुक्ष संशुद्धौ’ अस्मात्पचाद्यच् । ‘भद्रश्शिवे खञ्जरीटे वृषभे च कदम्बके' इत्युपक्रम्य 'क्लीबं मङ्गळमुस्तयोः' इति 'चोक्षो गीते शुचौ दक्षे तथाऽभीक्ष्णमनोज्ञयोः' इति मेदिनी । पक्षे वृषगोत्रशेखरं वृषभकुलावतंसं त्वां स्मरतां भद्रत्वं वृषभत्वं यत् प्राप्यं तदनुरूपम् । च उक्षत्वमिति छेदः । उक्षत्वं च प्राप्यमिति यत् तदिदमप्यनुरूपमित्यर्थः । वृषभकुलावतंसस्मर्तॄणामिदं फलमुचितमेवेति भावः । अत्र वृषगोत्रशेखरस्मरणस्य भद्रत्वावाप्त्यादेश्चानुरूप्यम् ॥

 यथावा--

 अच्युतशोभनभोगस्पर्शनतस्फातिमान् घनाघनराट् । अतिमात्रमुन्नतश्श्रीस्तनतीत्युचितं पयोधरो ह्येषः ॥ १३१८ ॥