पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४५९

पुटमेतत् सुपुष्टितम्
448
अलंकारमणिहारे

शालीत्यर्थः । मनुजः देवनकृतां धूर्तानां श्रेणिषु विषये सेवनकृत् श्रमलब्धा भवति एतदुचितमिति काक्वा नोचितमिति विरोधः । परिहारस्तु-- सेवनकृच्छ्रं अलब्धा इति छेदः। देवनकृतां अक्षदेविनां धूर्तानां श्रेणिषु पङ्क्तिषु सेवनस्य स्यूतेः ‘षिवु तन्तुसन्ताने, ल्युट् । कृच्छ्रं क्लेशं अलब्धा अप्राप्ता । लभेस्तृन् । धूर्तश्रेणिमध्यघटनप्रयुक्तक्लेशमननुभविता भवति । भगवच्चरणारविन्दपरिचरणचणस्य तादृशदोषानुन्मेषादिति भावः । अत्र भगवच्चरणपरिचरणकृतो धूर्तजनासंसर्गोऽनुरूपः । विरोधालङ्कारयमकसंकीर्णत्वं विशेषः ॥

 यथावा--

 अध्यक्षितमासीद्यैरध्यहिगिरि देव तावकं रूपम् । दधति सदाध्यक्षितमिह परत्र चामी तदेतदनुरूपम् ॥ १३२० ॥

 हे देव ! यैः जनैः अध्यहिगिरि अहिगिरौ तावकं रूपं अध्यक्षितं साक्षात्कृतं आसीत् अमी ते जनाः इह परत्र च अध्यक्षितं तत् त्वद्रूपं सदा दधति । एतत् अनुरूपं उपायफलयोरविसंवादादिति भावः । वस्तुतस्तु इह अस्मिन् लोके सदा अध्यक्षितं अध्यक्षं कृतं अधिराजत्वेन निष्पादितं रूपं दधति राजानो भवन्तीत्यर्थः । ‘अध्यक्षोऽधिकृते पुंसि स्यात्प्रत्यक्षेऽभिधेयवत्' इति मेदिनी । परत्र च परमपदेऽपि सदाध्यक्षितं रूपं सत् आध्यक्षितं इति च्छेदः । सत् प्रशस्तं सत्यकामत्वादिशुभगुणवत् । आधिना मनोव्यथया अशनायादिहेतुकया अक्षितं अक्षीणं 'क्षि क्षये' कर्मणि क्तः । रूपं ‘अपहतपाप्मा’ इत्याद्युक्तं स्वाभाविकं रूपं दधति ॥