पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६०

पुटमेतत् सुपुष्टितम्
449
समालङ्कारसरः (४१)

 यथावा--

 रक्तं त्वयि सर्वसमे समतां चेतो बिभर्ति सर्वत्र । भगवन् प्रतिकूलं तु प्रपद्यते तत्प्रतीपतामेव ॥ १३२१ ॥

 हे भगवन् ! सर्वसमे ‘सर्वस्य शरणं सुहृत् । समोऽहं सर्वभूतेषु’ इत्युक्तरीत्या सर्वसुहृदि त्वयि रक्तं अनुरागशालि चेतः चेतनस्य हृदयं सर्वत्र समतां तुल्यदृष्टितां बिभर्ति । ‘तुल्यो मित्रारिपक्षयोः’ ‘सर्वभूतश्शमश्शान्तः’ इत्याद्युक्तचेतनधर्मस्य चेतस्यारोपः । प्रतिकूलं सर्वसुहृदि त्वयि प्रातिकूल्यभाक् चेतस्तु तत्प्रतीपतां सर्वसमताप्रातिकूल्यमेव वैषम्यमेव प्रपद्यते । पक्षे तत्प्रतिकूलतां तस्य समतामिति शब्दस्य प्रतिलोमं तामसमिति शब्दः तस्य भावं तामसतां प्रपद्यत इत्यर्थोऽपि चमत्कारातिशयं पुष्णाति । अत्र सर्वसमभगवद्विषयकानुरागसर्वसमतावाप्त्योः तत्प्रतिकूलत्वतामसतावाप्त्योश्चानुरूपयोर्घटनम् । मालारूपत्वं पर्यायोक्तिगर्भत्वं च विशेषः ॥

 इमानि सर्वाण्युदाहरणानि श्लेषादिसंकीर्णानि । इदं तु शुद्धमुदाहरणम् । यथा--

 अज्ञं सर्वज्ञस्त्वं दयनीयं मां दयासुधाम्भोधे । दीनं च दीनबान्धव रक्षसि चेदुचितमम्बुजाक्ष तव ॥ १३२२ ॥

 सर्वमिदं स्तुतिपर्यवसायि समम् ॥

 ALANKARA II
57