पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६१

पुटमेतत् सुपुष्टितम्
450
अलंकारमणिहारे

निन्दापर्यवसायि यथा--

 दुर्जनशिखामणेर्मे दुर्जरविषयानुधावनं युक्तम् । शुनकखरजम्बुकादिर्ननु कलयति नैव हेयवैमुख्यम् ॥ १३२३ ॥

 यथावा--

 ननु नाथ शीतलमहा जहार भवतस्स्मितश्रियं विशदाम् । हाशीलवर्जितोऽसौ तमस्स्वभावं बभार तद्युक्तम् ॥ १३२४ ॥

 ननु नाथ! हे भगवन्! शीतलमहाः चन्द्रमाः भवतः विशदां स्मितश्रियं उन्निद्रां संपदमिति च गम्यते, जहार । हा इति खेदे । शीलेन सद्वृत्तेन वर्जितः असौ शीतलमहाः तमस्स्वभावं तमोगुणस्वभावं बभार । तद्युक्तम्, भवदीयस्मितश्रीहर्तुस्सच्चरितवर्जितस्य तमःप्रकृतिकत्वं युक्तमेवेति भावः । तमसः तिमिरस्य सुष्ठु अभावः स्वभावः तं बभारेति वस्तुस्थितिः । पक्षे हाशील इतिवर्णत्रयवर्जितश्शीतलमहा इति शब्दः तम इति वर्णसमुदयेन स्वभावं स्वसत्तां बभार । हाशील इति वर्णसमुदयापसरणे तावन्मात्रमेव परिशिष्ट इति भावः। । अत्र परस्वापहरणादेस्तमस्स्वरूपभरणस्य चानुरूप्यं निन्दापर्यवसायि ॥

 यथावा--

 कचजातरूपचौर्यात्तवाद्यवर्णच्युतो बत मिळिन्दः। अग्रजपुमाश्रितोऽपि प्राप पुळिन्दत्वमेष मधुपो हि ॥ १३२५ ॥