पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४६५

पुटमेतत् सुपुष्टितम्
454
अलंकारमणिहारे

यादृशगुणकवस्तुसंसर्गस्तादृशगुणोत्पत्त्या चेति द्विविधम् । इदं द्वितीयविषमप्रतिद्वन्द्वि ॥

 तत्राद्यं यथा--

 कृतसूर्यभवाश्लेषा गङ्गा चक्राब्जमत्स्यरेखाढ्या । इदमनुरूपं तस्या उदितायाः फणिगिरीश तव पदतः ॥ १३२९ ॥

 कृतः सूर्यभवायाः काळिन्द्याः श्लेषः संसर्गो यया सा तथोक्तेति गङ्गापक्षे, भगवच्चरणपक्षे तु कृतः सूरीणां विदुषां अभवाश्लेषः संसारसंबन्धवैधुर्यं येनेति योज्यम् । चक्राः चक्रवाकाः अब्जानि पद्मानि मत्स्याश्च तेषां रेखया पङ्क्त्या आढ्या । अन्यत्र चक्रं सुदर्शनं अब्जः शङ्खः अब्जं पद्मं वा मत्स्यश्च तेषां रेखाभिः तदाकाररेखाभिराढ्यमिति ॥

 यथावा--

 अम्भोधिराजदुहिता गम्भीरा श्रीनिवास तव दयिता । करितुरगधेनुमणिमुखविभवं सुमनस्सु वितरति स्थाने ॥ १३३० ॥

 करितुरगधेनुमणयः ऐरावतोच्चैश्रवःकामगवीचिन्तामणयः । अन्यत्र गजादय एव । सुमनस्सु देवेषु विद्रत्सु च । अत्र उदाहरणद्वये कारणाभ्यां भगवच्चरणाम्भोनिधिभ्यां कार्ययोर्गङ्गालक्ष्म्योस्सारूप्यं श्लेषभित्तिकाभेदाध्यवसायेन निर्व्यूढम् । उभयत्रापि कारणात्स्वसमानगुणकार्योत्पत्त्या उत्पत्तिलक्षणसंसर्गस्यानुरूप्यमुक्तम् ॥