पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४७०

पुटमेतत् सुपुष्टितम्
459
समालङ्कारसरः (४१)

 यथावा--

 कुचजन्म प्रेप्सुस्तव तपस्थितस्सोढशीतवातोष्णः । कुचतां कुलाचलोऽगात्तव कमलेलालयन् स्वमात्मानम् ॥ १३३८ ॥

 हे कमले ! कुलाचलः तव कुचजन्म प्रेप्सुः अतएव तपस्थितः तपश्चरन् । पक्षे तपसि माघमासे शिशिरऋताविति भावः । तपे ग्रीष्मे च स्थितः निश्चलतया वर्तमानः आतपे स्थित इति वा । न हि कुलाचलः कालभेदेन चलाचलो भवति । अतएव सोढशीतवातोष्णः ‘ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वासारषाण्मुनिः' इत्याद्युक्तप्रक्रियया द्वंद्वसहिष्णुस्सन् । पक्षे निसर्गत एव शीतादेस्सोढा । न ह्यचलश्शीतेन वातेन वा वेपते उष्णेन वितपते । तपसः फलमाह कुचतामिति । स्वं स्वकीयं आत्मानं अन्तरात्मानं भगवन्तं लालयन् विलासयन् ‘लड विलासे' णिजन्तादस्मात् लक्षणहेत्वोः' इति शता । हेतुरिह फलम् । स्वान्तरात्मप्रीणनायेत्यर्थः । तत्र कुचतां अगात् स्तनतयाऽवातारीत्यर्थः । पक्षे कुलाचलशब्दः कमले अलालयन्निति छेदः । स्वं आत्मानं स्वस्वरूपं अलालयन् लाश्च लश्च लालौ अविद्यमानौ लालौ यस्य सः अलालः तथोक्तं कुर्वन् अलालयन् लालेतिवर्णद्वयविधुरितं कुर्वन् कुचतां कुचशब्दतां अगात् । उक्तरीत्या लाकारलकारराहित्ये कुच इयेवावशेषादिति भावः । अत्र कुलाचलस्य विनाऽनिष्टमभीप्सितार्थसंसिद्धिः ॥

 यथावा--

 श्रीकुचफलशेषत्वप्रेप्सावल्लूरभोगसंत्यागि । मालूरफलं शुद्धं माफलशेषं न मुञ्चति स्वार्थम् ॥