पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८१

पुटमेतत् सुपुष्टितम्
470
अलंकारमणिहारे

 हे कृष्ण ! सन्तः हेयभोगसंसर्गं अवधीरयितुं हेयभोगेष्वेव कृतनृत्तं तत्रैवाभिषक्तमिति यावत् । त्वा त्वां भजन्ते । हन्तेत्याश्चर्ये । वस्तुतस्तु आहेयेति छेदः आहेयः अहिभवः यो भोगः फणः तत्र कृतनृत्तं काळियफणिफणकृतनटनमित्यर्थः । आहेयेत्यत्र अहिशब्दात् भवार्थे ‘दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्' इति ढञ । अत्र हेयभोगसंसर्गावधीरणमुद्दिश्य तद्विपरीतहेयभोगकृतनटनभजनलक्षणप्रयत्नो निबद्धः । प्रायेण श्लेषमूलभेदाध्यवसायोऽत्र जीवातुः ॥

 यथावा--

 वृजिनधराधरशिखरादवरोढुं श्रीनिवास ननु मनुजाः । जिह्मगधरणिधराञ्चलमारोहन्तीति नाद्भुतं कस्य ॥ १३५२ ॥

 वृजिनं कुटिलं यत् धराधरशिखरं तस्मात् अवरोढुं । पक्षे वृजिनं दुरितमेव धराधरशिखरं तस्मादित्यर्थः । `वृजिनं कलमषे क्लीबं केशे न कुटिले त्रिषु' इति मेदिनी । जिह्मगस्य कुटिलगमनस्य धराधरस्य गिरेः अञ्चलं अग्रं शेषाचलशृङ्गमिति वस्तुस्थितिः । ‘अराळं वृजिनं जिह्मम्' इत्यमरः । अत्र वृजिनधराधरशिखरावरोहणलक्षणफलोद्देशेन तद्विपरीतः जिह्मगधरणीधराग्रारोहणरूपप्रयत्नः ॥

 यथावा--

 अतिपतितुं दुर्गाणि प्रतिपदमहिशिखरिशिखरदुर्गगतम् । शरणं व्रजन्ति दैवं करणं विनियम्य सकलमपि मुनयः ॥ १३५३ ॥