पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८८

पुटमेतत् सुपुष्टितम्
477
अल्पालंकारसरः (४४)

 स्वापेक्षया सूक्ष्मादाधेयादाधारस्य सूक्ष्मत्वं यत् तदल्पं नामालङ्कारः । सूक्ष्मात् स्तोकात् सौक्ष्म्यं कार्श्यं ॥

 यथा--

 अधिलङ्कं निवसन्त्या मिथिलेशभुवोऽतिविरहतन्वङ्ग्याः । मौक्तिकवलयितनासामण्डनमधिकण्ठमाप हारत्वम् ॥ १३६७ ॥

 मौक्तिकवलयितनासामण्डनं मौक्तिकश्रोणिग्रथितवलयाकारसौवर्णनासाभरणविशेषः । अत्र उक्तविधं नासाभरणं सूक्ष्मम् । तदपि वल्लभविश्लेषजनितवैचित्त्येन ग्रीवायामर्पितं विरहकृशया भगवत्या जनकनन्दिन्या तत्र हारतां प्रापेत्युक्त्या ततोऽपि ग्रीवायास्सौक्ष्म्यं दर्शितमित्याधेयादाधारस्य सौक्ष्म्यमनुसन्धेयम् ॥

 यथावा--

 त्वद्दर्शनसंभ्रमतस्त्वद्दयिताकर्णवेष्टनं मध्ये । प्रतिमुञ्चति स्म तत्र व्यतिषक्तं नाथ तद्भवति काञ्ची ॥ १३६८ ॥

 अत्रापि कर्णवेष्टनं तावदतिसूक्ष्मं, तदपि त्वद्दर्शनसंभ्रमवशात्त्वद्दयितया श्रियाऽवलग्ने निबद्धं सत्तत्र काञ्चीतुल्यमभूदित्युक्त्या अवलग्नस्यातितनुत्वं दर्शितम् । अत्र विभ्रमाख्यश्शृङ्गारचेष्टाविशेषः ।

 'विभ्रमस्त्वरया काले भूषास्थानविपर्ययः'

इतिलक्षणात् । अयमलंकारो दीक्षितोपज्ञं, प्राचीनैरलक्षितत्वात् ॥

 सूक्ष्मादाधारतस्सौक्ष्म्यमाधेयस्य च तद्भवेत् ॥