पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४८९

पुटमेतत् सुपुष्टितम्
478
अलंकारमणिहारे

 आधारसौक्ष्म्यादाधेयसौक्ष्म्यमप्यल्पालंकार एव भवेत् इदं च प्रथमस्याधिकस्य प्रतिद्वन्द्वि, पूर्वं तु द्वितीयस्येति ध्येयम् ॥

 यद्यप्ययं प्रभेदः कुवलयानन्दकारैरलक्षितः, तथाऽप्यधिकप्रतिद्वन्द्वितयाऽवश्यमेष्टव्य इत्यस्माभिर्लक्षितः, द्वंद्विभूतस्याधिकस्यापि द्विप्रकारत्वात् ॥

 यथा--

 तनुतरमुदरं देवकतनुजायाः परममावसद्ब्रह्म । सूक्ष्माच्च सूक्ष्मतरमिति साक्षाच्छ्रुतिमतनुतान्वर्थाम् ॥ १३६९ ॥

 'सूक्ष्माच्च तत्सुक्ष्मतरं विभाति' इति मुण्डकश्रुतिमित्यर्थः । अन्वर्थां अनुगुणाभिधेयाम् । अत्राधारभूतस्य देवकीजठरस्याणीयस्तया आधेयस्य तद्भर्भस्थस्य परब्रह्मणस्सौक्ष्म्यं निबद्धम् ॥

 यथावा--

 अणुमात्रे मम हृदये प्रणतस्य विलीन एष परमात्मा । स्थानेऽयमणीयानिति जाने ज्यायस्त्वमर्थवादोऽस्य ॥ १३७० ॥

 अयं परमात्मा अणीयानिति स्थाने जाने ‘एष म आत्माऽन्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्वपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा, इति श्रुतेरणुतर इति युक्तं मन्ये । तर्हि ‘ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवः’ इति श्रुतेः का गतिरिति चेत् अत्राह-- ज्यायस्त्वमर्थवादोऽस्येति । अस्य परमात्मनो ज्यायस्त्वमर्थवादः प्रशंसामात्रं न तु वास्तवमिति भावः । अत्र सूक्ष्मात् हृदयरूपादाधारादाधेयस्य परमात्मनस्सूक्ष्मतरत्वम् । इदं परमात्म-