यथावा
लीनेऽपि जलधिमध्ये भानौ निखिलं तदीयरुचिजालम् । कमलोल्लासं कलयति कमलाक्षोरस्स्थमणिगतं सततम् ॥ १३७४ ॥
कमलोल्लासं कमलानां विकासं कमलाया हर्षं च । अत्रापि भानुरुचिजालस्य प्रसिद्धाधाराभावेऽपि वर्णनीये कौस्तुभे विशिष्टावस्थानमुक्तम् ॥
यद्यप्यत्रोदाहरणद्वयेऽपि ज्योत्स्नारविरुचिजालजातीये एव वर्णनीययोर्ज्योत्स्नारुचिजाले वर्ण्येते न तु ते एव । तथाऽपि भेदेऽप्यभेद इत्यतिशयोक्तिबलादेकत्वाध्यवसायाददोषः । इन्दीवरामोदकमलोल्लासयोस्तु श्लेषभित्तिकाभेदाध्यवसायमूलकातिशयोक्तिबलादेकत्वाध्यवसायः । न चैवमतिशयोक्तिरेव स्यादिति वाच्यम् । तस्यास्सर्वालङ्कारप्राणप्रदतया अलङ्कारान्तरबाधनायोगात्, अन्यथा श्लिष्टपरंपरिताद्यनेकालङ्कारलोपप्रसङ्गात् । यथोक्तं भामहेन--
सैषा सर्वत्र वक्रोक्तिरनयाऽर्थो विभाव्यते ।
यत्नोऽस्यां कविभिः कार्यः कोऽलङ्कारस्तया विना ॥
इति । वक्रोक्तिः अतिशयोक्तिरित्यर्थः ॥
द्वितीयः प्रकारो यथा--
नयनरुचाऽवयवरुचाऽप्यगगनजलदाननभ्रतटितश्च । दिशिदिशि परिविकिरन्ती दिशति फणीशाद्रिमणिवधूरमृतम् ॥ १३७५ ॥