पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९३

पुटमेतत् सुपुष्टितम्
482
अलंकारमणिहारे

 अमृतं सलिलं निश्श्रेयसं च । अत्र गगनं विना अभ्राणां अभ्राणि विना तटितां च निराधारतयैवावस्थानम् ॥

 यथावा--

 सह रघुवीरेण गतं तदाश्रितं यच्चराचरं निखिलम् । तत्कीर्तेर्धाष्ट्यं कियदेका लोकान्निराश्रया चरति ॥ १३७६ ॥

 पूर्वं रूपकसङ्कीर्णम् । इदं शुद्धं समासोक्तिसङ्कीर्णं वा ॥


द्वितीयविशेषः

यत्रैकमेव युगपदनेकाधारसंश्रयम् ।
आधेयं वर्ण्यते सोऽपि विशेषः परिकीर्तितः ॥

 यत्रैकमाधेयं परिच्छिन्नयत्किञ्चिदाधारस्थितमपि युगपदनेकाधारगतत्वेन वर्ण्यते स द्वितीयो विशेषप्रकारः । वक्ष्यमाणपर्यायव्यावृत्तये युगपदिति ॥

 यथा--

 शिरसि दिशां तत्त्वदृशां मनसि मुनीनां च वचसि सुकवीनाम् । त्वयि सन्त एव सुगुणाः पयसिजलोचन सदाऽपि विहरन्ते ॥ १३७७ ॥

 यथावा--

 श्रुतिमौळौ नतमौळौ प्रतिभाति च यद्वृषाद्रिवरमौळौ । तत्पादपद्मयुगळं मत्पापततिं जगत्पतेर्हरताम् ॥ १३७८ ॥