पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९५

पुटमेतत् सुपुष्टितम्
484
अलंकारमणिहारे

उदलङ्घि साऽर्चिरादिकपदवी सहसाऽत्र कोनु संदिग्धाम् ॥ १३८० ॥

 अत्र शेषाद्रिसोपानप्रथमपर्वणि पदन्यसनरूपकिंचित्कार्यारम्भेणासंभाविताशक्यतमार्चिरादिमार्गोल्लङ्गनरूपकार्यान्तरनिर्वर्तनं निबद्धम् ॥

 यथावा--

 मरुदशनवरधराधरशिरो हरे त्वं वतंसयसि सततम् । जगदखिलं शेखरितं भगवन् भवतेति भवति चित्रमिदम् ॥ १३८१ ॥

 अत्र शेषगिरिमात्रावतंसनलक्षणकिंचित्कार्यारम्भेण दुष्करतमाखिलजगच्छेखरवत्तानिष्पादनम् ॥

 यथावा--

 त्वामेकं विश्वम्भर बिभ्राणो हृदि बिभर्मि विश्वमिदम् । ननु विश्वभरणनिपुणस्त्वं वाऽहं वा विमृश्य वद तावत् ॥ १३८२ ॥

 अत्रैकभगवद्भरणकार्यारम्भेण दुष्करतमविश्वभरणकार्यान्तरकरणम् । विश्वंभरेति साभिप्रायविशेष्यविन्यासरूपपरिकराङ्कुरोदञ्चितवैभवमिति विशेषः ॥

 यथावा--

 अतिसुरभिगन्धमादनमतिवेलं रत्नसानुमहिशैलम् । सृजतेह चित्रकूटं बहवशैलाः कृताः क्षितौ विधिना ॥ १३८३ ॥