गदेतत् । तेनैव वृषगिरीन्दो तस्मै प्रददास्यमन्दमानन्दम् ॥ १३८६ ॥
महता येन आपदां प्रभवः जन्मस्थानं यो रजोविभवः रजोगुणभूमा तेन एतत् जगत् अक्षोभि, तेनैव उक्तरजोगुणविभवेनैवेत्यर्थः । पक्षे पत्प्रभवेति छेदः प्रभवतीति प्रभवं, पदः चरणात् प्रभवं यद्रजः तद्विभवेन स्वकीयचरणपरागमहिम्नेत्यर्थः । अमन्दमानन्दं प्रददासि ॥ अत्र दुःखसाधनत्वेन प्रसिद्धस्यापत्प्रभवरजोविभवस्य श्लेषमहिम्ना चरणरजोविभवाभेदाध्यवसितस्य भगवता आनन्दसाधनताविधानाल्लक्षणसङ्गतिः ॥
यथावा--
त्वदनभिमुखतायां प्रागमृताय्यन्ते स्म देव ये भोगाः । त्वदभिमुखतादशायां गरळाय्यन्ते त एव ननु मनुजैः ॥ १३८७ ॥
अत्र सुखसाधनत्वेन प्रसिद्धानां विषयोपभोगानां दुःखसाधनतानिबन्धनं पूर्वोक्तविपरीतमश्लिष्टमुपमासंकीर्णं चेति विशेषः ॥
द्वितीयः प्रकारो यथा--
भोगिक्ष्माभृदधीश्वरनिषेवणैर्यैर्बुधा मुमुक्षन्ते । तैरेव सदाऽभ्यस्तैरबुधास्सर्वेऽनिशं बुभुक्षन्ते ॥ ८८ ॥
बुधाः तत्वविदः यैः भोगिक्ष्माभृदधीश्वरस्य श्रीशेषाद्रिनेतुः भगवतः निषेवणैः मुमुक्षन्ते संसारबन्धान्मोक्तुमिच्छन्ति,