पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/४९९

पुटमेतत् सुपुष्टितम्
488
अलंकारमणिहारे

अबुधाः अतत्वविदः तैरेव भोगिक्ष्माभृदधीश्वरनिषेवणैरेव भोगैकप्रवणा ये क्ष्माभृदधीश्वराः भूपालश्रेष्ठाः तेषां निषेवणैरेवेति वस्तुस्थितिः । बुभुक्षन्ते सांसारिकभोगाननुभवितुमिच्छन्ति ॥ अत्र मोक्षसाधनत्वेन बुधैरुपात्तानां भोगिक्ष्माभृदधीश्वरनिषेवणानां तत्प्रतिस्पर्धिभिरबुधैस्तद्विरुद्धभोगसाधनीकरणं भोगिक्ष्माभृदित्यादिशब्दोपात्तार्थद्वयश्लेषभित्तिकाभेदाध्यवसायमूलातिशयजीवातुकमित्यवधेयम् ॥

 यथावा--

 पद्माक्ष पुरमरीणां येनाधाक्षीस्सुदर्शनेन त्वम् । तेनैव पुरोऽरीणां संपदमावहति तव सरोजाक्षी ॥ १३८९ ॥

 हे पद्माक्ष ! अरीणां पौण्ड्रकादीनां वैरिणां पुरं वारणास्यादिकं नगरं येन सुदर्शनेन चक्रेण त्वं अधाक्षीः दहसि स्म, तेनैव सुदर्शनेनैव तव सरोजाक्षी लक्ष्मीः अरीणां वैरिणां पुरः पुरस्य संपदं आवहतीति विरोधः । परिहारस्तु तेन सुदर्शनेनैव शोभनेनालोकनेनैव पुरः स्वदर्शनात्पूर्वमेवेत्यतिशयोक्तिः। अश्रितानमिति शेषः । अरीणां अप्रस्रुतां अक्षीणामिति यावत् । 'रिङ् प्रस्रवणे' दैवादिकादस्मात्कर्तरि क्तः । अस्य स्वादित्वेन 'स्वादय ओदितः' इत्योदित्त्वे ‘ओदितश्च' इति निष्ठातस्य नत्वम् । स्यन्नं रीणं स्रुतं स्रुतम्' इत्यमरः । संपदं श्रियं आवहतीति ॥ अत्र भगवता अरिपुरदहने साधनतया स्वीकृतस्य सुदर्शनस्य एतत्प्रतिद्वन्द्विन्या श्रिया तद्विरुद्धसंपत्तिदानसाधनीकरणं श्लेषमूलातिशयेन निबद्धम् ॥