पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०१

पुटमेतत् सुपुष्टितम्
490
अलंकारमणिहारे

जिघृक्षा । हन्त स्त्रियोऽनुकम्प्या दीना मूढाश्च जन्तवो हि सताम् ॥ १३९१ ॥

 हे हरे! अत्र भगवता उपेक्षायां यन्मूढत्वं कारणत्वेन संभावितं तत् प्रत्युत तद्विरुद्धानुजिघृक्षाया एव कारणतया ‘स्त्रियोऽनुकम्प्यास्साधूनां दाना मूढाश्च जन्तवः’ इति प्रमाणार्थमुपन्यस्य तद्युक्ततां स्थापयता कविना समर्थ्यत इत्ययं द्वितीयो व्याघातः ॥

 यथावा

 मूर्ख इति यदि जहासि त्वं मामनुरुन्त्स्व नाथ तत एव । रक्षन्ति हि वशयन्तो मूर्खं छन्दानुरोधतः प्राज्ञाः ॥ १३९२ ॥

 अत्रापि पूर्ववदेव भगवता भक्तस्य परित्यागं यन्मूर्खत्वं कारणतया संभावितं तत् प्रत्युत तद्विरुद्धानुवर्तनस्यैव कारणतया ‘मूर्खं छन्दानुरोधेन' इति नीतिप्रदर्शनेन तदौचित्यं स्थापयता कविना समर्थ्यते ॥

इत्यलङ्कारमणिहारे व्याघातालङ्कारसरस्सप्तचत्वारिंशः.


 एवं श्लेषातिशयोक्त्याद्युपायोन्मिषितेन किञ्चिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदनुवर्तमानस्तन्मूलका विरोधाभासादयो व्याघातान्ता निरूपिता अलङ्काराः । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽतिरिक्ताः काञ्चनस्येव कङ्कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणामुपमाभेदत्वापत्ते-