पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०२

पुटमेतत् सुपुष्टितम्
491
कारणमालालंकारसरः (४८)

र्भूयसी स्याद्वैयग्रीति परस्परच्छायामात्रानुसारिणो भिन्नविच्छित्तयो भिन्ना एवेत्यपरे ॥

अथ शृङ्खलालंकाराः.



यद्युत्तरोत्तरस्य स्यात्पूर्वपूर्वानुबन्धिता
अर्थेषु पङ्क्तिबद्धेषु व्यत्ययो वाऽपि शृङ्खला ॥

 पङ्क्तिरूपेण निबद्धेष्वर्थेषु उत्तरोत्तरस्य पूर्वपूर्वस्मिन् वा पूर्वपूर्वस्योत्तरोत्तरस्मिन् वा संसृष्टत्वं शृङ्खला । तच्च कार्यकारणत्वविशेषणविशेष्यत्वादिनानारूपम् । इयं च न स्वतन्त्रोऽलंकारः, वक्ष्यमाणप्रभेदैर्गतार्थत्वात् । न ह्यनया विना तेषां विविक्तोऽस्ति विषयः । यथाहि रूपकादिष्वनुप्राणयितृतया वर्तमानोऽप्यभेदांशस्समानधर्मांशो वा न पृथगलंकारः, एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते सावयवादिभेदैः रूपकस्य, पूर्णालुप्तादिभेदैरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात् । तस्माच्छृङ्खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमुपरिष्टाद्विवेचयिष्यामः ॥



अथ कारणमालासरः.(४८)

पूर्वपूर्वैर्वस्तुभिस्स्यादुत्तरोत्तरकारणैः ।
गुम्भः कारणमालैषा वैपरीत्येऽपि चेष्यते ॥

 उत्तरोत्तरकारणभूतैः पूर्वपूर्वैः पूर्वपूर्वकारणभूतैरुत्तरोत्तरैर्वा वस्तुभिर्गुम्भने सैव शृङ्खलाकारणमालालंकारो भवति । तत्र