पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०३

पुटमेतत् सुपुष्टितम्
492
अलंकारमणिहारे

पूर्वं पूर्वं कारणं परं परं कार्यमिति प्राथमिकी । पूर्वं पूर्वं कार्यं परं परं कारणमिति द्वैतीयीकी ॥

 तत्र प्राथमिकी यथा--

 भक्त्या त्वद्गिरिगमनं त्वद्गिरिगमनेन तव तु निध्यानम् । त्वन्निध्यानेन विभो पूर्णानन्दार्णवान्तराप्लवनम् ॥ १३९३ ॥

 निध्यानं दर्शनम् । ‘निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्' इत्यमरः ॥ अत्र भक्त्यादीनां पूर्वपूर्वेषां शेषाद्रिगमनाद्युत्तरोत्तरं प्रति कारणत्वं निबद्धम् ॥

 यथावा--

 अन्नात्खलु भूतानां प्राणाः प्राणैर्मनोऽथ मनसश्च । विज्ञानं विज्ञानादानन्दो ब्रह्म भासनं दधते ॥

 अन्नात् भूतानां प्राणाः भासनं प्रकाशं दधते बिभ्रति । जौहोत्यादिकस्य धाञो लट्प्रथमपुरुषबहुवचनम् । प्राणैः मनः भासनं दधते धत्ते । भौवादिकस्य दधतेर्लट्प्रथमपुरुषैकवचनम् । एवमग्रेऽपि । अत्राप्यन्नादीनां पूर्वपूर्वेषां प्राणाद्युत्तरोत्तरं प्रति कारणता गुम्भिता । इयं च ‘अन्नात्प्राणा भवन्ति भूतानां प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मयोनिः' इति तैत्तिरीयकश्रुत्यर्थानुसारिणीति विशेषः । अलंकाराणां श्रुतिमूलताख्यापनायेदमुदाहरणम् । ‘अन्नात् प्राणाः इन्द्रियाणि प्राणा वा भवन्ति । श्रवणानुकूलेन्द्रियप्राणसौष्ठवं जायत इत्यर्थः । मनः मननं, विज्ञानं दर्शनसमानाकारं ज्ञानं, आनन्दः आनन्दमयं ब्रह्म परब्रह्म भवति भासते । प्राणसौष्ठवमूलकश्रवणादिपरंपरयोत्पन्नान्निदिध्यसनादानन्दरूपं परं ब्रह्म प्राप्यत इति श्रुतेरर्थः॥