पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०४

पुटमेतत् सुपुष्टितम्
493
कारणमालालंकारसरः (४८)

 यथावा--

 आहारस्य विशुद्ध्या शुद्धिस्सत्त्वस्य सत्त्वशुद्धौ ते । भवति ध्रुवाऽच्युत स्मृतिरखिलग्रन्थिप्रमोक्षणं तस्याः ॥ १३९५ ॥

 अत्र ‘आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः’ इति श्रुत्यनुविधानेन पूर्वपूर्वस्याहारशुद्ध्यादेरुत्तरोत्तरसत्त्वशुद्ध्यादिकं प्रति कारणता निबद्धा पूर्ववदेव ॥ आहारशुद्धौ सात्त्विकाहारसेवायां सत्यां सत्त्वस्य अन्तःकरणस्य शुद्धिः । तस्यां च सत्यां ध्रुवा स्मृतिः दर्शनसमानाकारा स्मृतिर्भवति । तस्यां सत्यां सर्वग्रन्थीनां दुर्मोचतया ग्रन्थिशब्दवाच्यानामविद्यारागादीनां विप्रमोक्षो भवति इति श्रुतेरर्थः ॥

 यथावा--

 इन्द्रियविजयो मनसस्स्थेम्ना तस्माच्च कर्मयोगगतिः । ज्ञानं तस्मात्तस्माद्भक्तिर्भवति ततो भवेन्मुक्तिः ॥ १३९६ ॥

 इयं कार्योपक्रमा । पूर्वास्तु कारणोपक्रमा इति विशेषः ॥

 द्वितीया यथा--

 भवविपदस्तव पदयुगनवपङ्कजशरणवरणवैधुर्यात् । तदनेकादविवेकात्सोऽप्यच्युत सत्समागमालाभात् ॥ १३९७ ॥