पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/५०५

पुटमेतत् सुपुष्टितम्
494
अलंकारमणिहारे

 अत्र भवविपदादिपूर्वपूर्वं प्रति उत्तरोत्तरशरणवरणवैधुर्यादीनां कारणत्वं प्रथितम् ॥

 यथावा--

 श्रेयोहेतुर्विभवो विभवस्य निबन्धनं रमापापाङ्गः । तत्कारणं च भजनं भजननिदानं च पूर्वपुण्यश्रीः ॥ १३९८ ॥

 पूर्वोदाहरणे विभक्त्या कारणत्वबोधनं, इह तु हेत्वादिशब्दैरेवेति विशेषः ॥

 यथावा--

 गुरुकृपया हरिचरणप्रपदनमेषा च सत्त्वगुणपूर्त्या । सा च भगवत्कटाक्षात्स भवति यादृच्छिकादिसुकृतवशात् ॥ १३९९ ॥

 एषा गुरुकृपा ॥ इहादौ कारणोपक्रमः पूर्वत्र कार्योपक्रम इति वैलक्षण्यम् । इह च यद्यादौ कारणोक्तिरेव प्रस्तूयते तदा पुनः तत्कस्यचित्कारणं तदपि कस्यचिदिति, तस्य कारणं तस्यापि कारणमिति वा कारणमाला युक्ता । यदा तु कार्योक्तिरादावुपक्रम्यते तदा तत्कस्यचित्कार्यं तदपि कस्यचिदिति, तस्य कार्यं तस्यापि कार्यमिति वा युक्ता । सर्वथैव यः कार्यकारणत्वोपस्थापंकदेश्शब्द आदौ प्रयुक्तस्स एव निर्वाह्यः । एवंक्रमेण निबन्धनमाकाङ्क्षानुरूपत्वाद्रमणीयम् । अन्यथा तु भग्नक्रमं स्यादिति ध्येयम् । यथा प्राचीनानां पद्यं--

जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥