पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६१

पुटमेतत् सुपुष्टितम्
51
श्लेषसरः (२८)

इति सूत्रविहितः क्तः । ‘क्तस्य च वर्तमाने’ इति ‘न लोक' इति निषेधापवादभूता षष्ठी । भ्वादौ भ्वादिगणे जनिता प्रादुर्भूतः । स्थित इति यावत् । अयः अयधातुः । शपा निर्देशोऽयम् । उपसर्गे स्वसंबन्धिनि विवक्षिते परेत्याकारकोपसर्गे, पलायित इति वक्ष्यमाणत्वात् । विरलभावः विगमितो रः रेफः येनसः विरः लभावः लवर्णस्थितिः विरः लभावो यस्य स तथोक्तः । यद्वा-- रस्य रेफस्य लभावो लत्वं विशिष्टो रलभावो यस्य स तथोक्तः । वीत्यनेन लभावस्य नित्यत्वं द्योतितम् । सर्वथाऽपि रेफस्थानिकलकारवानित्यर्थः । तान्तः तेत्युत्सृष्टानुबन्धस्य क्तस्य ग्रहणम् । क्तप्रत्ययान्त इत्यर्थः । सदावलीडागमवानित्यत्र सदा वलि इडागमवानिति पदत्रयमसमस्तम् । वलि आर्धधातुकक्तप्रत्ययसंबन्धितकाररूपे वल्प्रत्याहारघटकवर्णे सदा नित्यं इडागमवान् सन् पलायितस्स्यात् ‘अयपय' इत्यादिना भ्वादौ पठितस्य परोपसृष्टस्यायतेः क्तप्रत्यये ‘उपसर्गस्यायतौ’ इति रेफस्य नित्यं लत्वे ‘आर्धधातुकस्येड्वलादेः' इति नियमिडागमे च पलायित इति रूपं निष्पद्यत इति निर्गळितोऽर्थः ॥

 यथावा--

 ईशः परोवरश्चिन्नास्येडयमेव हीश्वरो भवति । विकृतिमियान्नैवासावुपधालघुतागुणोऽपि दूरेऽस्य ॥

 अत्र भगवतः ईश्वरशब्दस्य च श्लेषः । परः अन्यः चतुर्मुखादिः अवरः निहीनः चित् चेततीति चित् चेतनः अस्य ईशः ईश्वरस्य भगवतः । ‘ईशा वास्यम्’ इत्यत्रेव ईट्छब्दोऽयं । ईट् स्वामी न भवति । भगवदपेक्षया निहीनत्वात्तस्येश्वरो न भवतीत्यर्थः । यद्वा-- परः अन्यः चित् चेतनः । ईश इति पञ्चमी ‘अनौ-