पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६७

पुटमेतत् सुपुष्टितम्
57
श्लेषसरः (२८)

वैराग्यादिगुणवन्तः न दृष्टाः, ते जनाः इतः अस्मात्तद्धितज्ञानादिमत्त्वादर्शनादेव हेतोः लुप्यन्ते स्वयमेव नश्यन्ति अधःपतन्तीति यावत् । भगवदभिमतज्ञानादिविरहे अखिलकलाकौशल्यमप्यकिंचित्करमिति भावः । तद्धितप्रत्ययादयस्तु भगवत्प्रीत्याधायकज्ञानभक्त्यादिमन्तस्तु एते सन्तो जनाः न लुप्यन्ते 'न मे भक्तः प्रणश्यति’ इति गानादिति भावः ॥

 पक्षे-- सन्तोऽपि सूत्रोच्चारणावसरे श्रूयमाणा अपि ये कुशलाः कवर्गशकारलकाराः अत्र ‘लशकु’ इति वक्ष्यमाणसूत्रोक्तवैपरीत्येन कुशला इत्युक्तिर्विवक्षितश्लेषलाभाय । नतद्धितप्रत्ययादयः तद्धितभिन्नप्रत्ययाद्यवयवभूतास्सन्तः दृष्टाः ज्ञाताः नतद्धितेत्यत्र नशब्देन समासः । एते इमे इतः इत्संज्ञकाः ‘लशक्वतद्धिते' इति तद्धितवर्जप्रत्ययादिभूतानां लशकवर्गाणामित्संज्ञाविधानादिति भावः । अत एव लुप्यन्ते लुप्ता भवन्ति । ‘तस्य लोपः' इतीत्संज्ञकस्य वर्णस्य लोपविधानादिति भावः । लोपश्चादर्शनं ‘अदर्शनं लोपः' इत्यनुशासनात् । अतद्धितेति पर्युदासफलितमाह-- नेत्यादिना । तद्धितप्रत्ययादयस्तु तद्धितसंज्ञकप्रत्ययाद्यवयवभूतास्तु एते कवर्गशकारलकाराः ‘आकर्षादिभ्यः कन्, लोमादिभ्यश्शः, प्राणिस्थादातो लजन्यतरस्याम्' इत्यादितद्धिताधिकारीयसूत्रविहितकादिप्रत्ययाद्यवयवभूता इत्यर्थः । न लुप्यन्ते । ‘आतोऽनुपसर्गे कः, एजेः खश्, पुंसि संज्ञायां घः प्रायेण, लटश्शतृशानचौ, ल्युट्च' इत्यादिविहितातद्धितप्रत्ययादिभूताः कादय इव न लोपं प्राप्नुवन्ति । किंतु आकर्षकः लोमशः जङ्घाल इत्यादिषु श्रूयमाणा एव भवन्तीति भावः ॥

 यथावा--

 सिद्ध्यति मह एव महत्परादतिप्रत्ययाद्बुधेन्द्रा-

 ALANKARA II
8