पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/६८

पुटमेतत् सुपुष्टितम्
58
अलंकारमणिहारे

णाम् । यत्रैव सर्वनामस्थाने सिद्धोनुमागमोऽपि परे ॥ ८५२ ॥

 अत्र भगवतो महधातोश्च श्लेषः । तथाहि-- बुधेन्द्राणां ब्रह्मविदग्रेसराणां परात् विजातीयप्रत्ययाव्यतिकीर्णतया श्रेष्ठात् अतिप्रत्ययांत् अविच्छिन्नात् स्मृतिसन्ततिरूपात् ज्ञानादेव महत् पूज्यं महः ‘तं देवा ज्योतिषां ज्योतिः, परमं यो महत्तेजः' इत्याद्युक्तं स्वप्रकाशरूपं परं ब्रह्म सिद्ध्यति प्राप्तं भवति । तदेव महो विशिनष्टि-- यत्रेति । सर्वनामस्थाने सर्वेषां नाम्नां पर्यवसानभूमौ सर्वशब्दवाच्ये इत्यर्थः । देवादिनामरूपव्याकरणनिदानभूते इति वा । यत्र यस्मिन् परे ब्रह्मण्येव मागमः मायाः श्रियः गमः संगमः संबन्धोऽपि सिद्धः निष्पन्नः मङ्गळकर इति वा ‘षिधू शास्त्रे माङ्गल्ये च' अस्मात्कर्तरि क्तः । अपीत्यनेन निसर्गत एव मङ्गळस्यास्य मङ्गळद्देवतायाश्श्रियस्संबन्धोऽप्यतिशयाधायक इति द्योतितम् । नु इतिच्छात्रानुनये ‘नु वितर्कापमानयोः । विकल्पेऽनुननयेऽतीते' इति मेदिनी । श्रीनिवासभूतं परं महः ब्रह्मवेदिभिरुपासनेन प्राप्तं भवतीति परिनिष्पन्नोऽर्थः ॥

 पक्षे -बुधेन्द्राणां वैयाकरणानां महः ‘मह पूजायाम्' इत्युक्तो महधातुः परात् स्वस्मात्परत्र विद्यमानात् अतिप्रत्ययात् महत् सिद्ध्यति महदिति निष्पद्यत इत्यर्थः । यत्रैव यस्मिन्महच्छब्द एव सर्वनामस्थाने ‘शि सर्वनामस्थानम्, सुडनपुंसकस्य' इति च सूत्रविहितसर्वनामस्थानसंज्ञके प्रत्यये परे सति । नुमागम इत्यत्र नुम् आगम इतिच्छेदः । नुम् ‘वर्तमाने पृषन्महद्बृहज्जगच्छतृवच्च’ इत्यतिप्रत्ययान्ततया निपातितस्य शतृवद्भावातिदेशेन उगित्वात् ‘उगिदचां सर्वनामस्थानेऽधातोः'