पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७३

पुटमेतत् सुपुष्टितम्
63
श्लेषसरः (२८)

त्परीभूतस्य विशतेरात्मनेपदानुशासनात्तस्य तद्दत्तत्वोपचारः । स च नीत्युपसर्गविशिष्टो विशधातुरपि । तत्र तस्मिन्नात्मनेपदे परे सतीति शेषः । निविशमानो भवति तथा निष्पद्यते । निसर्गतः परस्मैपदी विशधातुर्नीत्युपसर्गात्परत्वे उक्तप्रकारेणात्मनेपदितां प्रपद्य निविशमान इति निष्पद्यत इति निर्गळितोऽर्थः । अस्मिन्पक्षे आत्मनेपदं परस्मैपदायेत्यत्र ‘वैयाकरणाख्यायां चतुर्थ्याः' इति ‘परस्य च' इति सूत्राभ्यां चतुर्थ्या अलुगिति ध्येयम् ॥

 यथावा--

 नाथपदद्वयसेवी निर्सगतस्स्वैरमधिधरणिराजः । परमानमतं धत्ते चटुलस्स्थाने तथा सदादेशम् ॥

 अत्र भगवच्चरणसेविनो राजाधिराजस्य राजृधातोश्च प्रकृताप्रकृतयोश्श्लेषः । तथाहि-- निसर्गतः न तु परप्रेरणया । स्वैरं स्वच्छन्दं यथा स्यात्तथा न तु संकुचितं नाथस्य वेङ्कटनाथस्य पदद्वयसेवी चरणयुगं सेवमानः अधिधरणिराजः अधिको धरणिराजः राजाधिराज इत्यर्थः । चटुलः चटवः स्तुतयः अस्य सन्तीति चटुलः । सिध्मादिषु चटुशब्दपाठात् ‘सिध्मादिषु च' इति मत्वर्थीयो लच्प्रत्ययः । चटून् लाति आदत्त इति वा 'आतोऽनुपसर्गे' इति कप्रत्ययः । ‘चटुश्चाटुश्च राजादिस्तुतौ पशुपिचण्डके’ इति वैजयन्ती । श्लाघ्यस्सन्नित्यर्थः । यद्वा-- अचटुल इतिच्छेदः । अचपलस्सन्नित्यर्थः । ‘मदेन किंचिच्चटुलालसानाम्' इत्यत्र ‘चटुलाश्चपलाः' इति मल्लिनाथेन व्याख्यातत्वात् । स्थाने राज्ये इत्यर्थः । स्थितस्सन्नित्यध्याहारः । देशं जनपदं परमानमतं परेण उत्कृष्टेन मानेन गौरवेण मतं संमतं