पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७४

पुटमेतत् सुपुष्टितम्
64
अलंकारमणिहारे

यथा स्यात्तथा सदा सततं तथा अनिर्वचनीयं यथा स्यात्तथेत्यर्थः । धत्ते पुष्णाति । यद्वा-- सदादेशमिति समस्तं पदम् । परमानमतं परैश्शत्रुभिरपि मानेन गौरवेण मतं अभिमतं सन्तं यथाविधि प्रयुक्ततया प्रशस्तं आदेशं शासनं धत्ते पुष्णाति । अथवा-- सतां आदेशं आज्ञां परमानमतं महता पूजनेन विदितं यथा स्यात्तथा धत्ते सज्जनादिष्टेन पथा सबहुमानमाधिराज्यं पुष्णातीति भावः । यद्वा-- स्थाने इति युक्तार्थकमेदन्तमव्ययं पृथक्पदमन्ते योज्यम् । सदादेशं धत्ते स्थाने । भगवच्चरणयुगळसेविनः इदं युक्तमित्यभिप्रायः । अन्यत्समानमेव ॥

 पक्षे-- हे नाथेति संबुद्धिः । अधिधरणीति पृथक्पदम् । विभक्त्यर्थेऽव्ययीभावः, भुवीत्यर्थः । राजः ‘राजृ दीप्तौ' इत्युक्तो धातुः शपा निर्देशोऽयम् । निसर्गत एव न तु यगादिसमभिव्याहारात् स्वैरं यथेष्टं पदद्वयसेवी उभयपदीत्यर्थः । स्वरितेत्त्वानुशासनेन क्रियाफलस्य कर्तृगामित्वविवक्षायामात्मनेपदं परगामित्वविवक्षायां परस्मैपदं च भजमान इति भावः । अत एव चटु श्लाघ्यं यथा स्यात्तथा परं स्वस्मात्परतो विद्यमानं लस्थाने लटस्स्थाने । आनं अतं इतिच्छेदः। आनं अतमिति मुक्तानुबन्धयोश्शानच्शत्रोर्ग्रहणम् । आनं आत्मनेपदित्वे शानचं अतं परस्मैपदित्वे शतरि च ‘लटश्शतृशानचौ’ इति तयोरनुशासनादिति भावः । सदादेशं सत्संज्ञकमादेशं ‘तौ सत्’ इति लादेशयोश्शतृशानचोस्सत्संज्ञाविधानादिति भावः । धत्ते दधाति । राजृधातुस्स्वरितत्वेनोभयपदितया स्वभावसिद्धया यथेप्सितं लस्थानिकं शानचं शतारं च सत्संज्ञकमादेशं लभत इति संपिण्डितोऽर्थः ॥