पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/७५

पुटमेतत् सुपुष्टितम्
65
श्लेषसरः (२८)

 यथवा--

 इतरेतरयोगोज्ज्वलमुभयपदार्थप्रधानतामधुरम् । भगवद्रूपं द्वंद्वं भजामहेऽनन्तगिरिकृतोत्कर्षम् ॥८५५

 अत्र लक्ष्मीनारायणरूपदिव्यमिथुनस्य प्रकृतस्य द्वंद्वसमासस्याप्रकृतस्य च श्लेषः । तथाहि-- इतरेतरयोगोज्ज्वलं--

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।
राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥

इत्याद्युक्तरीत्या परस्परसंबन्धेन परस्परं प्राप्तपरभागमित्यर्थः । यद्वा-- अन्योन्यमविनाभावेन लब्धसत्ताकमित्यर्थः । यथोक्तं लक्ष्मीतन्त्रे--

अहन्ता ब्राह्मणस्तस्य साऽहमस्मि सनातनी ।
आत्मा स सर्वभूतानामहंभूतो हरिः स्मृतः ।
अहंता सर्वभूतानां साऽहमस्मि सनातनी ॥
अहंतया समाक्रन्तो ह्यहमर्थः प्रसिद्ध्यति ॥
अहमर्थसमुत्था च साऽहन्ता परिकीर्तिता ।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः ॥

इत्यादि । पक्षे ‘चार्थे द्वंद्वः’ इत्यनुशिष्टसमुच्चयान्वाचयेतरेतरयोगसमाहाररूपचार्थचतुष्टयमध्ये इतरेतरयोगलक्षणार्थविशेषे उज्ज्वलं सामर्थ्यसद्भावेन समस्ततया प्रकाशमानम् ॥

 इदमत्रावधेयं-- ईश्वरं गुरुं च भजेति समुच्चये, भिक्षामटगां चानयेत्यन्वाचये च न समासः, एकार्थीभावरूपसामर्थ्यविरहात् । तथाहि-- बहुव्रीहिघटकपदानां कर्माद्यन्तर्भावेणेव द्वंद्व-

 ALANKARA II
9