पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/८५

पुटमेतत् सुपुष्टितम्
75
श्लेषसरः (२८)

स्मृत्यन्तरेण चायं निरुक्तः--

 प्रायः पापमिति प्रोक्तं चित्तं तस्य विशोधनम् । इति । न संदेहः नात्र संशयः ।

पापे गुरूणि गुरुणि स्वल्पान्यल्पे च तद्विदः ।
प्रायश्चित्तानि मैत्रेय जगुस्स्वायंभुवादयः ॥
प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥

इत्युक्तप्रक्रियया इदमेवाखिलप्रायश्चित्तं भवेदित्यत्र न संदेग्धव्यमिति भावः । एतत्प्रमाणप्रत्यभिज्ञापनायैव अत्र मूलश्लोके कृष्णेति संबोधनं कृतमित्यवगन्तव्यम् ॥

 पक्षे— एकदा समासविवक्षायामित्यर्थः । प्रायः प्रायशब्दः । अदन्तोऽयम् । अस्मिन् पक्षे पर इहेत्यत्र परे इहेति छेदः । चित्ते चित्तशब्दे परे परत्र विद्यमाने सति । अवसितौ अवसाने विरामे अन्ते इत्यर्थः । एकदा आस्थित इति छेदः । सत्वं आस्थितो यदि समस्तं समासं प्राप्तं तदेव प्रायः चित्तमिति पदद्वयमेव प्रायश्चित्तं भवेत् प्रायश्चित्तमिति निष्पद्येतेत्यर्थः । ‘प्रायस्य चित्तिचित्तयोः' इति प्रायशब्दात्परस्य चित्तशब्दस्य सुडागमविधानात् । यद्यपि सुडागमश्चित्तशब्दाद्यवयवभूत एव, 'आद्यन्तौ टकितौ' इति परिभाषणात् । तथाऽपि तस्य प्रायशब्दान्ते’ श्रवणात् प्रायशब्दोऽवसाने सत्वमास्थित इत्युक्तम् । आगमसकारस्य श्चुत्वेन शत्वम् । वस्तुतस्तु भाष्ये 'प्रायस्य चित्तिचित्तयोस्सुडस्कारो वा’ इति पठितत्वात्प्रायशब्दान्त्यावयवभूतस्याकारस्य अस्कारे प्रायशब्द एवावसाने सत्वमास्थितो भवतीति न पूर्वोक्तक्लेशोऽनुसर्तव्यः । अस्कार इति प्रती-