पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९६

पुटमेतत् सुपुष्टितम्
86
अलंकारमणिहारे

 यथावा--

 यदि ननु निष्ठातोनो यदुपतिमहिळेभवत्प्रपदि भवति । अग्रेभवदश्च तदा भवेत्प्रपन्नोऽयमत्र को विशयः ॥ ८६६ ॥

 अत्र लक्ष्मीपदारविन्दप्रपन्नस्य प्रपन्नशब्दस्य च श्लेषः । तथाहि-- ननु यदुपतिमहिळे ! ‘मामेकं शरणं व्रज' इत्यादि वदतो भगवतो वल्लभे! अनेन तस्या अपि ताद्धर्म्यं द्योतितम् । 'नित्यं तद्धर्मधर्मिणीम्' इति ह्युच्यते । भवत्प्रपदि भवत्याः पादाग्रे ‘सर्वनाम्नो वृत्तिमात्रे' इति पुंवद्भावः । ‘पादाग्रं प्रपदम्' इत्यमरः । निष्टातः, सार्वविभक्तिकस्तसिः । तदेकतत्परतया तच्छरणवरणैकव्रततया वा ‘निष्ठा तु नाशे निष्पत्तावन्ते तात्पर्ययाच्ञयोः' इति रत्नमाला । ‘निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते' इति हेमचन्द्रः। अनितीत्यनः प्राणिता ‘अन प्राणने’ पचाद्यच् । 'प्रपन्नश्चातको यद्वत्, धर्मं धारय चातकस्य कुशलिन्धाराधरैकान्तिनः' इत्याद्युक्तरीत्या त्वच्चरणशरणवरणैकान्तिकतैकधारक इत्यर्थः । यद्वा-- निष्ठातः प्रार्थनया । कोशस्तूक्तः । प्रार्थनापलक्षितानुकूल्यमुखाङ्गपञ्चकेन अनः उज्जीवितेत्यर्थः । यदि भवति तदा अयं प्रपन्नः स्वतन्त्रप्रपत्तिनिष्ठः पुमान् अग्रे प्रपत्त्युत्तरं भवं जन्म गर्भप्राप्तिं वा द्यति अवखण्डयतीति भवदः 'दो अवखण्डने’ अस्मात् ‘आदेच उपदेशेऽशिति’ इति कृतात्वात् 'आतोऽनुपसर्गे' इति कः । यद्वा-- अग्रे भवं दायतीति भवदः ‘दैपु शोधने' शोधनार्थकादस्माद्धातोः पूर्वोक्तरीत्यैव कः पुनर्जन्म शोधयति तत्संबन्धं निर्मार्ष्टीत्यर्थः । शोधयतेः 'सर्वपापविशुद्धात्मा' इत्यादौ क्षाळनार्थे प्रयोगदर्शनात् । त