पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/९९

पुटमेतत् सुपुष्टितम्
89
श्लेषसरः (२८)

लोण्मध्यमैकवचनस्य सिपः ‘सेर्ह्यपिच्च' इति ह्यादेशे ‘अतो हेः' इति अतः परस्य हेर्लुगनुशासनात् । हिलोपानन्तरमेव हि निन्देति रूपं श्रूयत इति भावः ।

 यथावा--

 रघुवरदिव्यकथामृतलिडभूद्यदि भुवि तदा बभूवैवायम् । एकः पुरुषः प्रथमस्तथोत्तमो भवति मध्यमो नैवेह ॥ ८६८ ॥

 अत्र भगवत्कथामृतास्वादिनः पुंसः प्रकृतस्य भूधातोर्विहितस्य लिटोऽप्रकृतस्य च श्लेषः । तथाहि भुवि भूमौ रघुवरदिव्यकथामृतं लेढीति रघुवरदिव्यकथामृतलिट्, लिहतेः क्विप् । अभूद्यदि अयं पुमान् बभूवैव सत्तामलभतैव ‘भू सत्तायाम्' इति हि धातुः ‘भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः' इत्यादौ सत्तार्थकता च प्रसिद्ध्यति । सत्ता चात्मलाभः । भगवद्दिव्यकथामृतास्वादेनैवास्य सत्तालाभो नान्यथेति भावः । अद्यत्वे ईदृशो दुर्लभ इति द्योतनाय परोक्षभूतनिर्देशः । तमेव विशिनष्टि-- एक इति । अयमित्यनुषज्यते । अयमेकः पुरुषः एक एव पुमान् ‘सर्वं वाक्यं सावधारणम्’ इति न्यायात् इह अस्मिन् लोके तथा उत्तमः अनिर्वचनीयतया उत्तमः । तथाशब्दोऽनिर्वचनीयवाची ‘तथा गतां ताम्’ इत्यादौ तथा दर्शनात् । अत एव प्रथमः सर्वेषामग्रणीः भवति मध्यमो नैव भवति कथमीदृशो मध्यमस्स्यादिति भावः ।

 पक्षे-- दिव्यं कथामृतं यस्य तस्य संबुद्धिः हे रघुवर! भुवि भूधातौ लिट् 'परोक्षे लिट्’ इति विहितो लिट् अभूद्यदि परोक्षवृत्तेर्भूधातोर्लिड्यदाऽभूत् तदा अयं भूधातुः बभू-

 ALANKARA II
12