पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१०१

पुटमेतत् सुपुष्टितम्
89
काव्यलिङ्गसरः (६२)

 अत्र पूर्वार्धवाक्यार्थेन जगद्बन्धुभूतलोचनद्वितयवत्त्वरूपेणोत्तरार्धगतस्य भगवतश्शरणागतबन्धुतानिर्णयरूपवाक्यार्थस्य कैमुत्येन समर्थनमिति विच्छित्तिविशेषः ॥

 यथावा--

 त्वदपाङ्गान्वयभाजस्तदभाजश्चापि भवति परभेदः । आद्यो विष्टपभृत्स्यादन्त्यः फणिशैलनाथ विष्टरभृत् ॥ १५६५ ॥

 परभेदः उत्कृष्टो भेदः महान् भेद इत्यर्थः । पकाररेफाभ्यां भेद इत्यर्थोऽप्युपस्कार्यः । आद्यः त्वदपाङ्गान्वयभाक् विष्टपभृत् भुवनभर्ता लोकपाल इत्यर्थः । अन्त्यः तदभाक् विष्टरभृत् परेषां पीठाद्यासनभृत् किंकर इति यावत् । दर्भमुष्टिधारी इतरयाजनादिकर्तेति यावदिति वा । ‘विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम्' इत्यमरः । लोकपालान्यकिंकरयोर्महान् भेद इति भावः। विष्टपभृद्विष्टरभृच्छब्दयोः पकाररेफाभ्यामेव भेदः । अन्यवर्णानुपूर्व्या उभयत्र तुल्यत्वादिति परभेद इत्युक्तम् । अत्र पूर्वार्धप्रतिपादितपरभेदभवनरूपवाक्यार्थस्यैकस्योत्तरार्धवाक्यार्थाभ्यद्वाभ्यां समर्थनं व्यतिरेकगर्भमिति पूर्वेभ्यो वैलक्षण्यम् ॥

 यथावा--

 दूरेऽपसर तमस्त्वं चक्रधरो मम चकास्ति हृदि नित्यम् । यदि चेष्टसेऽल्पमपि वा तवावशिष्येत नोत्तमाङ्गमपि ॥ १५६६ ॥

 हे तम इति तमोगुणाभेदेनाध्यवसितस्य राहोस्संबुद्धिः । अत्र तमसो दूरापसर्पणं अनपसर्पणेन यत्किंञ्चिदपि चेष्टसे पूर्ववहुत्त-

 ALANKARA--III.
12