पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४१

पुटमेतत् सुपुष्टितम्
129
अर्थान्तरन्याससरः (६३)

 हे अम्ब! पुलिनं अपुंभवं गतं स्वरूपत एवापुंस्त्वमापन्नं ‘तोयोत्थितं तत्पुलिनम्' इति क्लीबत्वानुशासनादिति भावः । पक्षे अपुं पुवर्णरहितं भावं स्थितिं गतं लिनमित्यवशिष्टमित्यर्थः । अत एव भवत्याः नितम्बतः पुंस्त्वभाज इति भावः ‘पश्चान्नितम्बः' इति पुल्लिङ्गतानुशासनात्तस्य । विजितं अथ कथमपि अग्रे नितम्बस्य समक्षं भवनं स्थितः यस्य तथाभूतं सत्, पक्षे अग्रभवः आदिभागस्थितिः नः नकारः यस्य तत्तथोक्तं नलिनं सदिति यावत् । तदाऽपि क्लीबत्वमत्यजदेवेति भावः । पादेन पुंस्त्वभाजेति भावः । धुतं क्षिप्तम् । पुलिनभावे नितम्बेन नलिनभावे पादेन च तिरस्कृतमिति निर्गलितोऽर्थः । कुत एवमित्यत आह-- किमिति । क्लीबं नपुंसकम् । किं प्रगल्भतां किमिति पुमानिव प्रागल्भ्यं लभेतेति भावः ॥

 यथावा--

 गोत्रप्रवरे भवनं यवयोरेकत्र माधव तथाऽपि । आसीद्विवाहयोगस्स्वैराः क्व नु विधिनिषेधवशगास्स्युः ॥ १६२६ ॥

 हे माधव! इदं लक्ष्मीपतित्वेन संबोधनं विवक्षितार्थोपष्टम्भाय । लक्ष्मीश्च त्वं च युवां तयोः युवयोः "त्यदादीनि सर्वैर्नित्यम्, त्यदादितश्शेषे पुन्नपुंसकतो लिङ्गवचनानि" इति पुल्लिङ्गयुष्मच्छब्दैकशेषः । एकत्र एकस्मिन् गोत्रप्रवरे गोत्रं च प्रवरश्च अनयोस्समाहारः गोत्रप्रवरं तस्मिन् स्मृतिप्रसिद्धे एकस्मिन्नेव गोत्रे प्रवरे चेयर्थः । पक्षे गोत्रप्रवरे गिरिश्रेष्ठे शेषाद्रावित्यर्थः । भवनं जन्म गृहं च भवति । तथाऽपि युवयोः विवाहयोगः परिणयरूपसंबन्धः । तथाऽपीत्यनेन--

 ALANKARA--III.
17