पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१५२

पुटमेतत् सुपुष्टितम्

अथ प्रौढोक्तिसरः (६५)


यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् ।
प्रौढोक्तिरेषा कथिता जयदेवमुखैर्बुधैः ॥

 किंचिदुत्कर्षाहेतुभूते वस्तुनि तद्धेतुताकल्पनं प्रौढोक्तिर्न्नामालंकारः ॥

 यथा--

 सारस्वतपूरोदरसूरसमुद्बुद्धसारसात्यरुणे । चरणे सुभगंकरणे स्मरणे स्तां मे हरेः प्रियंकरणे ॥ १६४६ ॥

 अत्र सरस्वतीपूरगतारुणिमातिशयाहेतोस्तदुदरसूरसमुद्बुद्धत्वस्य तद्धेतुत्वकल्पनम् ॥

 यथावा--

 शरदमृतकरज्योत्स्नाच्छुरिताभ्रसरिद्विकासिकुमुदसिताः । मुरवैरियशःपूरा हरिता कर्पूरलेपमादधते ॥ १६४७ ॥

अत्रापि कुमुदसितत्वातिशयाहेतोश्शरच्चन्द्रज्योत्स्नाच्छुरितत्वादेर्हेतुत्वकल्पनम् ।

 रसगङ्गाधरकारस्तु "कस्मिंश्चिदर्थे किंचिद्धर्मकृतातिशयप्रतिपिपादयिषया प्रसिद्धतद्धर्मवता संसर्गस्योद्भावनं प्रौढोक्तिः' इति अस्यालंकारस्य लक्षणमाह । तदेदमुदाहरणम्--