पुटमेतत् सुपुष्टितम्
143
संभावनासरः (६६)
यथावा--
सितकिरणकिरणनिकरव्यतिकरतो द्रावितस्तुषारगिरिः । घनसारसारमसृणो यदि तुलयेन्नाथ तव कृपासारम् ॥ १६५१ ॥
अत्राद्ये स्तोतुः कोटिवदनत्वादितर्कणं भगवदेकगुणमहिमकोटितमांशतर्कणसाधनम् । द्वितीये तुषारगिरेश्चन्द्रकरद्रवीभूतत्वादितर्कणं भगवत्कृपासारतुलनार्हतातर्कणसाधनम् ॥
यथावा--
कर्मानुगुणफलप्रदभर्त्रनुरोधश्रमोऽम्ब तव नो चेत् । धनिदीनविभागकथादूरमिदं श्रीमदेव भुवनं स्यात् ॥ १६५२ ॥
यथावा--
अहमेव यदि विधाता जातु भवेयं हरे भवत्कृपया । खलवदनगहननिपतनविसंस्थुलां न रचयेय ननु वाणीम् ॥ १६५३ ॥
यथावा--
यदि तादृशशेषत्वं सिध्येन्मम तर्हि कथमपीशीय । लावण्यविभवमच्युत तव वक्तुं श्रोतुमीक्षितुं वाऽपि ॥ १६५४ ॥
तादृशशेषत्वमिति । शेषत्वं तादृशेति विशिषतोऽयमभिप्रायः-- यद्यप्यधुनाऽपि स्वाभाविकं भगवदनन्यार्हशेषत्वमस्ति तथा-