पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१८७

पुटमेतत् सुपुष्टितम्
175
उल्लाससरः (७१)

 अच्युतपदनिगळितमप्यसारविषयेषु मदविदितमेव । धावददान्तं हृन्मम धात्रा सृजता प्रतारितोऽस्मि मुधा ॥ १७०० ॥

 इदं भूयसाऽपि यत्नेन दुश्शकमनोनिग्रहतया निर्विद्यमानस्य कस्यचित्प्रपन्नस्य वचनम् । तथाहि-- अच्युतस्य भगवतः पदे चरणे निगळितमपि निश्चलतया स्थापितमपि, पक्षे दुर्मोचकारारूपस्थानविशेषशृङ्खलितमपि मदविदितं मया अज्ञातमेव यथा स्यात्तथा असारेषु विषयेषु देशेषु च ‘विषयो गोचरे देशे तथा जनपदेपि च' इति मेदिनी । धावत् रुचिभेदाद्विषयरसानेवास्वादयदिति भावः । पक्षे कारागृहाद्विशृङ्खलतया स्वैरं देशाद्देशं धावमानमिति भावः । अदान्तं स्वरूपतोऽशिक्षितं मम हृत् चेतः सृजता धात्रा, अनेन स्वतः पोषकस्वभावेनापीति व्यज्यते । मुधा प्रतरितोऽस्मि व्यर्थमेव वञ्चितोऽस्मि । ईदृगतिदुर्दान्तचपलचेतस्सर्जनपूर्वकमद्वञ्चनेन न किंचिदस्य प्रयोजनं विमृशन्नपि पश्यामीति भावः । अत्र प्रपन्नमनसश्चापल्यरूपदोषेण तत्स्रष्टुर्धातुः प्रतारकत्वरूपदोषाधानम् । प्रकृते प्रपन्नमनोवृत्तान्ते उच्छृङ्खलकारागृहस्वैरनिस्सृतचेतोवृत्तान्तप्रतीतिरूपसमासोक्त्युपस्कृतमिदम् । पूर्वोदहारणे तु उभे अपि शुद्धे इति विवेकः ॥

 यथावा--

 अधिनाथो भवतु विधिर्ननु नाथ त्वयि मनाक्पराचीने । भगवन्ननाथ एव हि भविता कश्चिन्न कोऽपि विशयोऽत्र ॥ १७०१ ॥