पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१९९

पुटमेतत् सुपुष्टितम्
187
अवज्ञासर: (७२)

 यथावा--

 गच्छतु गयां वितनुतां विलोमतन्नामवाच्यमपि यदिवा । विन्देदरविन्देक्षण कथं तव पदं त्वया विवदमानः ॥ १७१८ ॥

 यथावा--

 विलोमतन्नामवाच्यं प्रतिलोमगयाशब्दवाच्यं यागमित्यर्थः । गयागन्ता वा यष्टा वा भवतु । स पुमान् हे अरविन्देक्षण ! त्वया विवदमानः ‘त्वं मेऽहं मे’ इत्युक्तरीत्या विवादकर्ता कथं तव पदं विन्देत ।

यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥

 इति तत्पदभरार्पणरूपाविवादवत एव निश्श्रेयसप्राप्त्यभिधानादिति भावः । अत्र वक्तव्यांशस्सर्वोऽपि समासोक्तिप्रकरणे सप्रपञ्चं न्यरूप्यत । अत्र गयायागयोः पवित्रतादिगुणेन भगवत्पदलाभगुणानाधानम् ॥

 दोषेण दोषानाधानं यथा--

 का तव हानिर्भगवन् कश्चिदभाग्यः पराङ्मुखस्त्वयि चेत् । नलिनसुहृदो भवेत्किं नयनरुजा चेन्निमीलितः कश्चित् ॥ १७१९ ॥

 नयनरुजेत्युपलक्षणतृतीया । अत्र भाग्यहीननयनरोगिणोः पराङ्मुखत्वनिमीलितत्वाभ्यां दोषाभ्यां भगवन्नलिनसुहृदोर्हानिरूपदोषानाधानम् । इयमपि दृष्टान्तसंकीर्णा आद्योदाहरणवत् ॥