पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१६

पुटमेतत् सुपुष्टितम्
204
अलंकारमणिहारे

इत्युक्तलक्षणपथ्यार्यानामत्वरूपसूच्यार्थसूचनम् ॥

 एवं ‘कामपि करुणामुद्राम्' इत्यत्र मुद्रापदेनास्मिन् पद्ये प्रतिपादितस्यालंकारस्योक्तलक्षणमुद्रानामत्वसूचनमर्थवत्पदैकदेशेनेत्यन्याऽपि मुद्रा ॥

 यथावा--

 त्वद्दीप्तिधूतरोचिस्तटिल्लता । क्वापि हन्त जीमूते । लीनाऽपि भीतिभारात्पयोधिनन्दिन्यभूच्चपला ॥ १७३७ ॥

 क्वापि जीमूते जलदे पर्वते च 'जीमूतौ मेघपर्वर्तौ' इत्यमरः । अत्र चपलेत्यर्थवता श्लिष्टेन पदेन अस्य पद्यस्य--

उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याः ।
चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥

 इति लक्षितगुरुद्वयमध्यगजगणात्मकद्वितीयचतुर्थगणवदुभयार्थशालिचपलाख्यार्यानामतालक्षणसूच्यार्थसूचनम् ॥

 यथावा--

 यस्य न करुणालेशस्तस्यानन्तं वृषाचलेश सुखम् । भजसि कृपाविवशस्त्वं परदुःखनिराचिकीर्षया क्लेशम् ॥ १७३८ ॥

 अत्र करुणालेशवैधुर्यरूपदोषस्यानन्तसुखवत्त्वरूपगुणत्वकल्पनं कृपापारवश्यरूपगुणस्य परदुःखनिराचिकीर्षानिमित्तकक्लेशवत्तारूपदोषत्वकल्पनं चेत्यनुपदोक्तलक्षणलेशालंकारः । स च अनर्थकपदैकदेशरूपलेशशब्देन तन्नाम्नो ज्ञापनीयस्य ज्ञापनम् ॥