पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२२८

पुटमेतत् सुपुष्टितम्
216
अलंकारमणिहारे

भगवदाश्रितस्य भास्वदाद्यात्मता प्रतीयत इति प्रसिद्धसहपाठानां भास्वदादीनां नवानां ग्रहाणां क्रमेण प्रकृतान्वयितया न्यासः ॥

 यथावा--

 जहि कामं क्रोधं जय जहीहि लोभं जहाहि मोहं च । जहिहि मदं मत्सरमपि विसृज हरेर्ननु कटाक्षपात्रं स्याः ॥ १७६२ ॥

 अत्र प्रसिद्धसहपाठानां कामादीनां षण्णां समुच्चयालंकारविधया प्रकृतान्वयिनां क्रामिकत्वम् ॥

 प्रकृतान्वयशालिनी अक्रमा यथा--

 यममार्जय नियमं श्रय जितासनो विन्दसे सखे ब्रह्म । प्राणायामप्रत्याहारी ध्यायन् सधारणसमाधिः ॥ १७६३ ॥

 अत्र 'यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि’ इति पातञ्जलसूत्रोदितक्रमाणां यमादीनां समुच्चयविधया प्रकृतान्वयिनां किंचित्क्रमविपर्यासेन न्यसनम् ॥

 पृथ्वी संपत्तेजो निरवधिकं सर्वतोमुखं च यशः । भाति शुभस्पर्शनता तव गुणजातं त्वनन्तमेव हरे ॥ १७६४ ॥

 पृथ्वी महती ‘ओतो गुणवचनात्' इति ङीष् । पक्षे भूरित्यर्थः । तेजः प्रभावः, पक्षे अग्निः । सर्वतोमुखं विश्वतः प्रसृमरं पक्षे जलम् । शुभस्पर्शनता शुभं स्पर्शनं दानं यस्य स तथोक्तः । तस्य भावः । अन्यत्र शुभः यः स्पर्शनः वायुः