पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३४

पुटमेतत् सुपुष्टितम्
222
अलङ्कारमणिहारे

 अभिरामं रमणीयं लक्ष्मीरस्मिन्नस्तीति लक्ष्मणं, पामादित्वान्मत्वर्थीये नप्रत्यये ‘लक्ष्म्या अच्च’ इति लक्ष्मीशब्देकारस्य अत्वं ततो णत्वं च । ईदृशं वक्षो यस्य स तथोक्तः । कृपाभरतः दयाभारात् । सार्वविभक्तिकस्तसिः । विनतानां नित्यशत्रवः कामादयः तान् हन्तीति विनतनित्यशत्रुघ्नः मूलविभुजादित्वाद्धन्तेः कप्रत्ययः । अत्र रामादीनां चतुर्णां श्लेषोत्तम्भितमुद्रालंकाररीत्या प्रकृतानन्वयिनां क्रमेण न्यसनम् ॥

 यथावा--

 लसति हसितातसीता पवनोल्ललनोर्मिळाग्रसरसीका । ब्रह्माण्डव्यापिशिरा विश्रुतकीर्तिर्वृषाद्रिवरमूर्तिः ॥ १७७६ ॥

 अत्र प्रतीतपाठसाहित्यानां सीतोर्मिळामाण्डवीश्रुतकीर्तीनां पूर्ववदेव ग्रथनम् ॥

 यथावा--

 नित्यविभवासु देवासुरनरसंकर्षणोऽहिगिरिभूषु । प्रद्युम्नदो नतेभ्यो विहरत्यनिरुद्धशासनश्शौरिः ॥ १७७७ ॥

 देवासुरनराणां संकर्षणः गुणभूम्ना आकर्षकः नतेभ्यः प्रद्युम्नदः प्रकृष्टविभवप्रदः अनिरुद्धशासनः अप्रतिहताज्ञः शौरिः नित्यविभवासु अहिगिरिभूमिषु विहरति । अत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धानां न्यसनम् ॥