पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२३९

पुटमेतत् सुपुष्टितम्
227
रत्नावळीसरः (७७)

कारः साचिव्यं यया सा तथोक्ता श्रीमती लीला सारथ्यलीला यस्य स तथोक्तः नीलोत्पलोज्ज्वलः स पुमान् अवतु । मामिति शेषः । अत्र ‘अरविन्दमशोकं च' इत्यादिप्रसिद्धक्रमपञ्चबाणन्यसनम् ॥

 यथावा--

 प्राणयितारं स्वकथापानविधातॄन्पिशङ्गसंव्यानम् । कलयेय मुदाऽनन्तम् समानयन् हृदयपुण्डरीकं तम् ॥ १७८६ ॥

 स्वकथापनविधातॄन् जनान् प्रणयितारं । पिशङ्गसंव्यानं पीताम्बरोत्तरीयं ‘संव्यानमुत्तरीयं स्यात्' इत्यमरः । तं सकललोकवेदप्रसिद्धं अनन्तं भगवन्तं हृदयपुण्डरीकं समानयन् प्रापयन् सन् मुदा कलयेय इति योजना । अत्र श्रुत्यादिप्रसिद्धानां प्राणापानव्यानोदानसमानानां क्रमिको न्यासः ॥

 यथावा--

 शब्दैकगम्यमुज्झितदोषस्पर्शं निरूपणातिगसुगुणम् । तामरसनयन तनुयां सुभगं धर्मेण चेतसो विषयं त्वाम् ॥ १७८७ ॥

 हे तामरसनयन! उज्झितदोषस्पर्शं निरूपणातिगाः वाङ्मनसाविषयाः सुगुणाः यस्य तं 'यतो वाचो निवर्तन्ते' इति श्रुतेः । अनेन पदत्रितयेन ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी स एष सर्वेभ्यः पाप्मभ्य उदितः । स एष ये चास्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानाम्' इत्यन्तरादित्यविद्योक्तं दिव्यमङ्गळविग्र-