पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२६४

पुटमेतत् सुपुष्टितम्
252
अलंकारमणिहारे

 इत्यादिप्रमाणादिति भावः । प्रतीकेन अवयवेन शरीरेणेति यावत् । मुक्तोऽपि प्रतीकान्मुक्तोऽपीति वा । एतद्देहप्रहाणपूर्वकं निश्श्रेयसं प्राप्तोऽपीति यावत् । ऐक्यं तस्य भगवतः अभेदं कदाचिदपि न भजेत् न प्राप्नुयात् । किंतु तादृगेव तत्सदृश एव स्यात् । ‘निरञ्जनः परमं साम्यमुपैति’ इति परमसाम्यश्रवणात् ।

अनेन--

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
एवं मुनेर्विजानत आत्मा भवति गौतम ॥

 इति श्रुत्यर्थो वर्णितः । अस्याश्श्रुतेरयमर्थः-- शुद्धे शुद्धं जलं प्रक्षिप्तं तत्सदृशमेव भवति न तु किंचिदपि विसदृशम् । एवं मनननिदिध्यासनशीलस्यात्माऽपि परमात्मसदृश एवेति न त्वभेदं प्राप्नोति, तादृक्छब्दश्रवणात् । तादृक्छब्दस्तत्सदृशवाची । सादृश्यं च भेदघटितमेवेति । किंच तादृगेव सदादास एव स्यात् न तु स्वयं सर्वशेषीति भावः । पक्षे सदादासशब्दः प्रतीकं प्रतिप्रतिलोमं यथास्यात्तथा ‘प्रतिकूले प्रतीकं स्यात्' इत्यमरः । उक्तोऽपि पठतोऽपि तादृगेव सदादास एव स्यात् न तु विभिन्नानुपूर्वीक इति भावः । अत्रापि पूर्वावस्थानुवर्तनं पूर्ववदेव । इदं पूर्वरूपप्रकारद्वयमपि जयदेवोपज्ञम् ॥

इत्यलंकारमणिहारे पूर्वरूपसर एकोनाशीतितमः.



अथातद्गुणसरः (८०)


 अतद्गुणं संगतान्यगुणानङ्गीकृतिं विदुः ।

 गुणवत्सन्निधावपि तदीयगुणानङ्गीकारोऽतद्गुणालंकारः ॥