पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२६५

पुटमेतत् सुपुष्टितम्
253
अतद्गुणसरः (८०)

 यथा--

 विदलितवलरिपुमणिवरकान्ते फणिशैलनाथहृदयान्ते । अपि सततकृतनिवासा नासादयसेऽम्ब किंचिदपि नैल्यम् ॥ १८२८ ॥

 यथावा--

 शुचितरफणिवररुचिभरशोणफणामणिमरीचिनिचयेन । निचुलितरुचिरपि नितरां फणिशयन जहासि नासितत्वं स्वम् ॥ १८२९ ॥

 यथावा--

 परिहितमप्यनवरतं पीताम्बरमम्बुजाक्ष भवतेदम् । न जहाति पीततां स्वां परिदधदपि तद्भवानसिततां च ॥ १८३० ॥

 यथावा--

 अपि कमलानिलय हरे त्वद्रुचिकमलारुची मिथो मिळिते । प्रविविक्ते एव भृशं भातो यमुनासरस्वतीतुल्ये ॥ १८३१ ॥

 अत्राद्योदाहरणे परगुणाग्रहणं शाब्दम् । स्वगुणत्यागाभाव अर्थः । अनन्तरयोरुदाहरणयोः स्वगुणत्यागाभावश्शाब्दः। परगुणाग्रहणं त्वार्थम् । अनयोरपि द्वितीयोदाहरणे पीताम्बरभगवतोः ते परस्परमिति विशेषः । तुरीयोदाहरणे तूभयमप्यार्थमित्यवधेयम् ॥