पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२७

पुटमेतत् सुपुष्टितम्
15
पर्यायालंकारसरः (‌५३)

 यथावा

 देहात्मभ्रमवान् प्रागथ स्वतन्त्रात्मधीस्ततो भगवन् । त्वदितरशेषभ्रमवानधुना मन्ये त्वदेकशेषं माम् ॥ १४३४ ॥

 स्वतन्त्रात्मधीः स्वतन्त्रात्मभ्रमवान् । त्वदन्येषां पित्रादीनां देवतान्तराणां वा शेष इति भ्रमवान् । अत्र देहात्मभ्रमस्वतन्त्रात्मभ्रमान्यशेषत्वभ्रमभगवदेकशेषत्वानामनेकेषामाधेयानां क्रमादेकस्मिन्नाधारे निबन्धनम् ॥

 यथावा--

 आदौ तमसा मलिनं गुरुकृपया विशदमथ च हरितत्वम्। अधिगम्य तत्र रक्तं हृदयं मम चित्रमेतदब्जाक्ष ॥ १४३५ ॥

 अत्रादौ माळिन्यं अज्ञानं नैल्यं च । अथ वैशद्यं ज्ञानप्रकाशः धावल्यं च । अनन्तरं हरितत्वप्राप्तिः भगवद्याथात्म्यनिष्कर्षः, हरिद्वर्णत्वं च । अथ रक्तता भगवति प्रीतिः आरुण्यं चेत्येकस्मिन्नाधारे क्रमेणानेकाधेयवर्णनम् । चित्रं आश्चर्यमिदं शबलवर्णं चेत्यप्युपस्कार्यम् । पूर्वोदाहरणं शुद्धम् । इदं तु श्लेषसंकीर्णं तमसेत्यादिना उपात्तप्रयोजकं चेति विशेषः ।

 यथावा --

 हन्त परस्वस्तैन्यप्रवेशधीरो भवन्नरो भगवन् । दृष्टोऽवितस्वया चेत्परस्वसैन्यप्रवेशधीरस्स्यात् ॥

 त्वया दृष्टः कटाक्षितः । अवितः रक्षितश्च । पक्षे वित इति छेदः । विगततकार इत्यर्थः । दृष्टश्चेति योजना । परस्वस्तै-