पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२९

पुटमेतत् सुपुष्टितम्
17
परिवृत्त्यलङ्कारसरः (‌५४)

अथ परिवृत्त्यलंकारसरः (५४)


 निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः ॥

 निमयः विनिमयः । 'परिदानं परीवर्तो नैमेयनिमयावपि' इत्यमरः । समैः पदार्थेः समानामर्थानां असमैरसमानां वा विनिमयः उपादानं परिवृत्तिर्नामालङ्कारः । तत्र समपरिवृत्तिर्द्विधा उत्तमैरुत्तमानां न्यूनैर्न्यूनानां च । असमोऽधिको न्यूनश्च भवतीत्यधिकेन न्यूनेस्योपादाने न्यूनेनाधिकस्योपादाने चासमपरिवृत्तिर्द्विधेत्येवं चतुर्धा परिवृत्तिः ॥

 तत्राद्या यथा--

 स्तुतिममृतमयीं भुजगक्षितिधरचूडामणे त्वयि समर्प्य । प्रतिलभते त्वत्तः पुनरतिवेलं मादृगमृतमेव कृती ॥ १४३८ ॥

 अत्रामृतरूपस्तुतेरमृतस्य चोत्तमत्वेन समयोः परिवृत्तिः । इयममृतशब्दगतश्लेषमूलाभेदाध्यवसायनिर्व्यूढा ॥

 यथावा--

 आधाय कथमपि त्वयि मेधावी हृदयतरळमात्मानम् । प्रतिविन्दतेऽनघ त्वा श्रुतिसुदतीहृदयतरळमात्मानम् ॥ १४३९ ॥

 मेधावी विद्वान् हृदयतरळं वक्षस्स्थनायकमणिं हृदयेन हृदये वा तरळं चपलमानसामिति तत्त्वम् । यद्वा--

 ALANKARA --III.
3