पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३१८

पुटमेतत् सुपुष्टितम्
306
अलङ्कारमणिहारे

 यथावा--(युग्मं)

 किं चिरयसि संलपितुं किंचिदुदञ्चय कुतूहलं ललने । तैलिकहालिकनिकटे कुतूर्हलं चापि लभ्यते नात्र ॥ १९२४ ॥

 कुप्यसि कस्माद्वनिते प्रसीद रूप्याकृते मयि प्रणते । कुप्येत्किं रूप्याकृतिरिति परिहसति स्म दयितमब्धिसुत ॥ १९२५ ॥

 अत्राद्यश्लोके किञ्चित्कुतूहलमाश्लेषादावुदञ्चयेति भगवतोक्तस्य कुतूः कृत्तिस्नेहपात्रं हलं लाङ्गलं चेत्यनयोस्समाहारः कुतूहलमित्यर्थान्तरं परिकल्प्य यथाक्रमं तैलिकनिकटे कुतूः हालिकनिकटे हलं च लभ्यते नात्रेत्युत्तरम् । द्वितीये तु हे रूप्याकृते प्रशस्तरूपाकारे हे वनिते जनितात्यनुरागे ‘वनिता जनितात्यर्थानुरागायां च योषिति' इत्यमरः । प्रणते मयि कस्मात् कुप्यसि कोपं विधत्से इति भगवतोदितस्य आहतं रूपमस्य रूप्यं तस्येवाकृतिर्यस्या इत्याहतरूपहेमरूप्यान्यतरतुल्याकृतित्वरूपार्थान्तरम् । कुप्यसीत्यस्य कुप्यं कृताकृतहेमरूप्यभिन्नं ताम्रकांस्यादि तदिवाचरसीत्यर्थं च कल्पयित्वा रूप्याकृतिः कथं कुप्येदित्युत्तरं भगवत्या जगज्जनन्या वितीर्णम् । रूप्यशब्दः 'रूपादाहतप्रशंसयोर्यप्' इति रूपशब्दादाहतप्रशंसयोरर्थयोर्यप्प्रत्ययेन निष्पन्नः । 'स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते । ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्' इत्यमरः ॥