पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३५१

पुटमेतत् सुपुष्टितम्
339
विधिसरः (१०२)

 अत्र परमात्मनः परमात्मत्वस्य प्रत्यगात्मनः प्रत्यगात्मत्वस्य च विधानमनुपयोगबाधितं सत्तयोः सर्वशेषित्वतच्छेषत्वसर्वज्ञत्वादिभिस्स्वभावतोऽत्यन्तवैलक्षण्यं गर्भीकरोति । तज्जगदीश्वरेत्यादिना उत्तरार्धेनाविष्कृतम् ॥

 यथावा--

 अद्यप्रभृति हि लोका यूयं यूयं वयं तु वयमेव । इन्द्रियवशगा यूयं वयं तु भगवद्वशंवदा एव ॥ १९८८ ॥

 अत्र यूयं वयमित्यनयोः यूयं वयमिति विधानमनुपयुक्तं सत् इन्द्रियकिंकरत्वभगवदेककिंकरत्वादिपरस्परसांगत्यानर्हतालक्षणमर्थान्तरं गर्भीकरोति । तच्चोत्तरार्धेन प्रकटितम् । अत्र--

अद्यप्रभृति हे लोका यूयं यूयं वयं वयम् ।
नास्ति । संगतिरस्माकं युष्माकं च परस्परम् ॥
अर्थकामपरा यूयं नारायणपरा वयम् ।
वयं तु किंकरा विष्णोर्यूयमिन्द्रियकिंकराः ॥

 इत्येतदनुसंधेयम् । यथावा--

 पुण्यापुण्याभ्यां यन्नहनं जन्तोस्त्वया कृतं भगवन् । अनुकूलं तद्भवतु प्रतिकूलं वाऽपि नहनमेव खलु ॥ १९८९ ॥

 हे भगवन् ! जन्तोः प्राणिनः पुण्यापुण्याभ्यां सुकृतदुष्कृताभ्यां कर्मभ्यां यत् नहनं बन्धनं त्वया कृतं तत् नहनं अनुकूलं पुण्यफलभूतैहिकामुष्मिकसुखकरं प्रतिकूलं पापफल-