पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/३६

पुटमेतत् सुपुष्टितम्
24
अलङ्कारमणिहारे

 यथावा--

 आकाशराजतनया राकाशशिदास्यदास्यरुचिनिचया । जगदीश्वरमक्रैषीत्प्रगुणतमं कनककलशकोशाभ्याम् ॥ १४५३ ॥

 प्रगुणतमं अतिशयेन ऋजुस्वभावं "ऋजावजिह्मप्रगुणौ' इत्यमरः । अनेन परकृतातिसन्धानानभिज्ञत्वं व्यञ्जितम् । कनककलशकोशाभ्यामित्यनेन हेमकुम्भन्यस्तार्थनिवहाभ्यामिति च गम्यते । अत्र श्रुतियुवतीत्युदाहरणे असितरत्नत्वेन भगवतः श्लक्ष्णप्रवाळत्वेनाधरस्य चाध्यवसानाद्रूपकातिशयोक्तिः । तदुत्तम्भिता न्यूनाधिकपरिवृत्तिः । आकाशराजेत्युदाहरणे कनककलशकोशाभ्यामिति रूपकातिशयोक्त्या उक्तरीत्या प्रगुणतममिति साभिप्रायविशेषणरूपपरिकरालंकारेण चोपस्कृता सेति विशेषः ॥

 एषूदाहरणेषु दानादानव्यवहारः कविकल्पित एव । न तु वास्तवः । यत्र वास्तवस्तत्र नांलकारः ॥

 यथावा--

 अधिविपणिसरणि फणिगिरिरमणमनःप्रीणनाय सुमणिगणान् । क्रीणन्ति द्युमणिघृणीन्कतिचन कृतिनस्सुतुल्यमूल्येन ॥ १४५४ ॥ ।

 द्युमणेः घृणयो रश्मय इव घृणयो येषां तान् । अतितेजस्विन इत्यर्थः । नात्र दानादाने कविप्रतिभाकल्पिते ॥

 शम्बरधरमणिकदम्बैः क्रीणन्त्यखिलाम्ब जाम्बवफलानि । कुरूविन्दकनिकुरुम्बैर्बिम्बानि च तावकीनगृहबालाः ॥ १४५५ ॥