पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५६

पुटमेतत् सुपुष्टितम्
44
अलङ्कारमणिहारे

 गुणक्रियाणां यौगपद्येनान्वयो यथा--

 चलितभ्रु ललितमधुरं लुलितालकचारु विवलितापाङ्गम् । जगदीश्वरीमुखं फणिनगनाथमनो धिनोति सततमपि ॥ १४८९ ॥

 अत्र ललितमधुरमिति गुणयोः चलितभ्रु इत्यादिक्रियाणां च सामस्त्येन युगपदेकधर्मिण्यन्वयः ॥

 एवं धर्मैक्यरूपे द्वितीयप्रभेदे कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वयरूपः प्राथमिको भेदः प्रदर्शितः । कारणतया एकधर्म्यन्वयरूपे प्रभेदे शोभनानां शोभनैस्समुच्चयो यथा--

 ज्ञानबलैश्वर्याद्या गाम्भीर्यास्थैर्यधैर्यमुख्याश्च । कल्याणगुणाः प्रथयन्त्यनितरसाधारणास्तवौन्नत्यम् ॥ १४९० ॥

 अत्र ज्ञानादिष्वेकेनाप्युत्कर्षसंभवे बलादयोऽप्युत्कर्षप्रकाशनार्थं स्पर्धये वा पतन्तः शोभनाः ॥

 यथावा--

 कमलाभं नयनयुगं कमलादयितानिलाशनाद्रिमणे । रूपं च नीलजलदसरूपं प्रथयति तवाखिलेशत्वम् ॥ १४९१ ॥

 अत्र ‘तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी । हीश्च ते लक्ष्मीश्च पत्न्यौ । नीलतोयदमध्यस्था' इत्यादिश्रुतिप्रसिद्धपुण्ड-