पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/५९

पुटमेतत् सुपुष्टितम्
47
कारकदीपकालङ्कारसरः (‌५८)

अथ कारकदीपकसरः (५८)


क्रमिकाणां क्रियाणां चेदेककारकगामिनाम् ।
गुम्भनं क्रियते तत्तु भवेत्कारकदीपकम् ॥

 एककारकगतानां क्रमिकाणां क्रियाणां गुम्भनं कारकदीपकमित्यलङ्कारः । यद्यपि निबध्यमानानां क्रियाणां प्रस्तुतत्वेन सर्वोद्देशेनैव धर्मिणः कारकस्य प्रवृत्तिः । अतः किंचिदुद्देशेन प्रवृत्तस्यान्यत्र प्रासङ्गिकत्वलक्षणदीपकसादृश्यविरहान्न दीपकव्यपदेशो युक्तः । तथाऽपि एकस्यानेकान्वयमात्रेण दीपकसादृश्यमाश्रित्य तथा व्यपदेशः । दण्डिना तु कारकदीपकं दीपक एवान्तर्भाव्य तुल्ययोगिताऽपि तद्भेदत्वेनैव प्रतिपादितेत्यवोचाम दीपकालंकारनिरूपणावसर एव । वस्तुतस्तु मालादीपकवत्पृथगेवायमलंकारतामर्हति न दीपकेऽन्तर्भावं, तज्जीवातोरुपमागर्भतया इहाभावात् । समुच्चयप्रतिद्वंद्वितया विच्छित्तिविशेषसद्भावाच्चेत्ययं पूर्वैरकृतविवेकोऽपि प्रदर्शितो दीक्षितैविकल्पालंकार इवालंकारसर्वस्वकृता ॥

 उदाहरणं--

 अधिरोहति वृषशिखरिणमभिमज्जति नाथ तत्र सरसि कृती । त्वामञ्चत्यथ मुञ्चति मुदाऽश्रु तत्रैव वाञ्छति निवस्तुम् ॥ १४९७ ॥