पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६०

पुटमेतत् सुपुष्टितम्
48
अलङ्कारमणिहारे

 यथावा-

 पश्यति हरिरुपसर्पति तिष्ठत्यालपति हसति परिहसति । सल्लपति स्पृशति समालिङ्गति गोपीमुपैति तदभेदम् ॥ १४९८ ॥

 आलापः आभाषणं, सल्लापः मिथोभाषणम् । अत्राद्ये कृतिरूपकर्तृकारकस्य एकस्यैव अधिरोहणादिक्रियास्वन्वयः क्रमिको निबद्धः । द्वितीये हरिरूपकर्तृकारकस्य एकस्यैव दर्शनादिक्रियास्वन्वयः क्रमिक इति प्रथमसमुच्चयप्रतिद्वंद्वीदम् ॥

इत्यलंकारमणिहारे कारकदीपकसरोऽष्टापञ्चाशः


अथ समाध्यलंकारसरः (५९)


कारणान्तरसांनिध्यवशात्कार्यस्य कस्यचित् । सौकर्यं वर्ण्यते यत्र समाधिस्तत्र गीयते ॥

 एककारणजन्यस्य कार्यस्याकस्मिककारणान्तरसमवधानाहितं यत्सौकर्यं तस्य सम्यगाधानात्समाधिरलंकारः । तच्च कार्यस्यानायासेन सिद्ध्या साङ्गसिद्धा च । समुच्चयविशेषापेक्षयाऽस्य वैलक्षण्यं त्वभिहितमेव प्राक् ॥

 यथावा--

 यादृच्छिकसुकृतवशान्मादृक्षं त्वं समुद्दिधीर्षुरसि । तादृशसाधुसमागम ईदृशसमये हठादुपनतो मे ॥ १४९९ ॥