पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/६८

पुटमेतत् सुपुष्टितम्
56
अलङ्कारमणिहारे

 अत्र भगवत्तनुरुचा अधरीकुतस्य नवजलदस्य तत्प्रतिकरणापटुतया तदीयशैलाधरीकरणम् । उदाहरणद्वयेऽपि अधरविधुप्रभृतिशब्दगतश्लेषोत्तम्भितस्साक्षात्प्रतिपक्षतिरस्काराक्षमस्य तदीयतिरस्कारस्तुल्य एव । अन्तिमे त्वर्थान्तरन्यासशेखरितत्वं विशेष इति ध्येयम् ।

 क्वचित्प्रतिपक्षसंबन्धिसंबन्धितिरस्कारेऽपीदं दृश्यते । यथा--

 नूनमयं स्वर्भानुर्लूनशिराश्श्रीनिकेतनेन पुरा । तद्भासमनुविभातो विभावसोर्मण्डलं क्वचिद्ग्रसते ॥

 अनुविभात इति भाच्छब्दस्य षष्ठ्येकवचनं विभावसोरित्यस्य विशेषणं 'तमेव भान्तमनुभाति सर्वम्’ इति श्रुतिच्छायाऽत्रानुसंहिता । मण्डलं बिम्बं, राष्ट्रमित्यपि गम्यते । शिष्टं स्पष्टम् । अत्र भगवल्लूनशीर्षेण तत्प्रतिकारानीश्वरेण स्वर्भानुना तदीयभासमनुविभासमानस्य भानोर्यन्मण्डलं तस्य तिरस्कृतिरिति प्रतिपक्षसंबन्धिसंबन्धितिरस्कृतिः ॥

 यथावा--

 अवधीरितो मुखरुचा तव धवलांशुर्मदम्ब नयनसखम् । परिभूय नलिनमलिनस्तदाश्रितांस्तत्र निगळयति रात्रौ ॥ १५१३ ॥

 तवेत्येतत् मुखरुचा नयनसखं इत्युभयत्रापि संबध्यते । अत्र साक्षात्प्रतिपक्षभूतजगज्जननीवदनसंबन्धि नयनं, तत्सखतया तत्संबन्धि नलिनं, तत्संबन्धिनोऽळिनः, तत्तिरस्कृतिरभिहितेति पूर्वस्माद्विच्छित्तिविशेषः ॥