पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/८८

पुटमेतत् सुपुष्टितम्
76
अलङ्कारमणिहारे

 यथावा--

 त्वामाश्रितवत्सल इति वदतां नाच्युत विवेकलेशोऽपि । येन कृता रिपुसुहृदोर्विश्वाश्वगजावनीप्राप्तिः ॥ १५४९ ॥

 येन त्वया रिपुसुहृदोः विश्वाश्वगजावनीप्राप्तिः कृता । रिपुपक्षे-- विश्वा विगतः श्व इत्याकारकवर्णः यस्यास्सा । अश्वगजावनीप्राप्तिः श्ववर्णापाये अगजावनीप्राप्तिरिति निष्पद्यते । शैलप्रदेशगतभूम्यवाप्तिः तेषां सर्वस्वभ्रंशनाद्वनान्तरप्रापणं कृतमिति भावः । सुहृत्पक्षे-– विश्वं समस्तं यत् अश्वगजं तस्य अवनी पालयित्री प्राप्तिः अभ्युदयः ऐश्वर्यमित्यर्थः । ‘उदयेऽधिगमे प्राप्तिः' इत्यमरः । कृता । यद्वा विश्वाश्वगजं च अवनी च तासां प्राप्तिः लाभ इति । अत्रोत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनं श्लेषोत्तम्भिततुल्ययोगिताविशेषपरिष्कृतमिति पूर्वापेक्षया विशेषः ।

 ननु विश्वाश्वगजावनीशब्देन शैलप्रदेशगतभूम्यवाप्तिरूपार्थस्य कथं प्रतीतिः ? वाचकशब्दप्रयोगमन्तराऽर्थप्रतीतेरयोगात् । विश्वाश्वगजावनीशब्दस्य तदर्थवाचकशब्दस्वाभावादिति चेत्सत्यम् । विगतश्ववर्णस्याश्वगजावनीशब्दस्येत्यर्थान्तरस्य श्लेषमाहिम्ना उपस्थितौ तादृशशब्दस्यैवात्र विवक्षितत्वात् । तादृशशब्दस्य प्रकृतोपयोगित्वं न स्वतः । 'किंतूक्तार्थेनाभेदाध्यवसायसहकारात् । अभेदाध्यवसायनिमित्तं च योऽर्थस्स शब्दः इति तादात्म्यव्यवहारः । तादात्म्यं च मञ्जूषादौ व्यक्तमित्युत्प्रेक्षालंकारप्रकरणे ‘विद्युन्मुखे विकारम्' इत्यत्र स्फुटं न्यरूपयाम । यद्वा श्लेषमहिम्ना अगजावनीशब्दस्योपस्थितौ तदर्थस्याप्युपस्थितिरित्यालंकारिकसमयः । अतो नार्थप्रतीत्यनुपपत्तिरिति ॥